SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः सूत्रस्थानम्। ४३३ तत्र श्लोकाः। पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्। इन्द्रियोपक्रमेऽध्याये सदवृत्तमखिलेन च ॥१०॥ स्वस्थवृत्तं यथोदिष्टं यः सम्यगनुतिष्ठति । स समाः शतमव्याधिरायुषा न वियुज्यते ॥ कालवज्ज वानप्रस्थे यदृच्छया ऋतुकालं वर्जयित्वा विधवानां सर्वदैव इति । ज्ञानं शास्त्रार्थतत्त्वाववोधः। मैत्री सर्वभूतेष्वात्मीयतानुकूला प्रवृत्तिः। कारुण्यं सर्वभूतेषु दया। होऽनाहादरहितत्वम्। उपेक्षा अप्रतिग्रहः स्वयमुपस्थितधनादौ विवादादौ च। प्रशमः शान्तेन्द्रियखचित्तखेषु परस्तत्परः स्यात्। तच्च सदगृत्तं सव्वोत्कर्षखेनोपदिष्टं बोध्यम् , एषु च ब्रह्मचर्ये इतिकत्र्तव्ये यदि व्यवायं विहातुमशक्तः स्यात् तदा गृहस्थाश्रममाश्रित्य विवाह न रजस्वलामित्यादुप्रक्तविधिना व्यवायं गच्छेत् । यदि मांसानि विहातुमशक्तः खादितुमिच्छति तदा पितृन् देवान् समभ्यच्ये खादन मांसमदोषभागिति मन्वादुाक्तत्रा विधिना पश्न हवा खादेत् । उक्तञ्च मनुना–“न मांसभक्षणे दोषो न मद्य न च मैथुने। प्रत्तिरेषा भूतानां नित्तिस्तु महाफला ॥” इति महाफलाभिप्रायेण ब्रह्मचादिपरखोपदेशो बोध्य इति ॥९॥ ___ गङ्गाधरः-उक्तग्रन्थमुपसंहरति-तत्र श्लोका इत्यादि। पञ्चपञ्चकमिति पञ्चेन्द्रियाणीत्यादि पञ्चपञ्चकम्, अतीन्द्रियमित्यादिना मनस्तदर्थश्च । तदर्थातियोगेत्यादिना हेतुचतुष्टयं प्रकृतिहेतुरेकः समयोगः। विकृतिहेतवोऽयोगातियोगमिथ्यायोगाश्च त्रय इति। सद वृत्तमिति। तस्मादित्यारभ्याध्यायशेषपर्यन्तवचनेन। स्वस्थवृत्तानां चतुरध्यायोक्तानां फलरूपम् ॥१०॥ गङ्गाधरः-प्रशंसामाह—स्वस्थवृत्तमित्यादि। समाः शतमिति वषेशतमेवास्मिन् काले पूर्णमायुः “अरोगाः सव्वसिद्धाथोश्चतुव्वेषशतायुषः। कृते त्रेतादिषु मांसोपयोग विना पुरुषो न जीवति, अतो हिंसां करोति, तदा सर्वत्रात्मानं गोपायीत” इति वेदवचनविहितत्वात् तथाविधहिंसा न प्रत्यवायहेतुः, जीवनोपायान्तरसम्भवे तु पुथ्यादिप्रयोजनहिंसा प्रत्यवायहेतुरेव। किञ्च भवतु वा आयुर्वेदविहिता हिंसा तथापि हिंसा दोषार्थमुच्यते ; न हि आयुर्वेदविधयो धर्मसाधनमेवोपदिशन्ति, किं तर्हि, आरोग्यसाधनं "धातुसाम्यक्रिया चोक्ता तन्तस्यास्य प्रयोजनम्" इत्युक्तः ॥९॥ चक्रपाणि:-संग्रहे हेतुचतुथ्यं समातिहीनमिथ्यायोगाः। समाः शतं वर्षशतं ; यद्यपि सम्वृत्तानुष्ठानेऽपि दैवविपर्ययेणान्तरा मरणं व्याधयो वा भवन्ति, तथापि प्राधान्यात् दैवकृत For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy