________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३१
८म अध्यायः]
सूत्रस्थानम् । क्षत्रियः कण्ठगम्ययोग्यमात्रा वैश्यः पानयोग्यमात्राः स्वाष्ठमूलस्याधोभागेन ब्राह्मातीर्थेन कनिष्ठाद्यङ्गलिमूलेन प्राजापत्यतीर्थेन वा चतुरङ्गल्यग्रभागेण देवतीर्थेन वा न तु तयोः कायदैवतीर्थयोरधोभागेन द्विविधेन पितृतीर्थेनापः पिबेत । क्षत्रियवन्मूर्दाभिषिक्तः, वैश्यवदम्बष्ठो माहिष्यश्च ; पण्णामेषां ब्राह्मण मूर्दाभिषिक्त-क्षत्रियाम्बष्ठ-माहिष्य-वैश्यानां द्विजधम्मेिवात् । उक्तं हि याशवल्क्येन-“विप्रान्सु भिषिक्तो हि क्षत्रियायां विशः स्त्रियाम् । जातो. ऽम्बष्ठोऽथ शूद्रायां निषादः पारशवोऽपि वा॥” इति। मनुनाप्युक्त दशमाध्याये-“ब्राह्मणाद् वैश्यकन्यायामम्बष्ठो नाम जायते। निषादः शुद्रकन्यायां यः पारशव उच्यते। स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान सुतान । सदृशानेव तानाहुर्मातृदोषविहितान्। सजातिजानन्तरजाः षट् सुता द्विजधम्मिणः। शुद्राणान्तु सबमर्माणः सर्वेऽपध्वंसजाः स्मृताः । पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्त मातृदोषात् प्रचक्षते ॥" इति। मनोययमभिपायः-ब्राह्मणस्य चतस्रो विवाहिता भार्याः ; एका ब्राह्मणकन्या, द्वितीया क्षत्रियकन्या, तृतीया वैश्यकन्या, चतर्थी शूद्रकन्या । तत्र आद्यायां जातः पुत्रो मातापित्रोरेकवर्णखात ब्राह्मण एव उच्यते; द्वितीयायां जातो यः पुत्रः स मातुः पितृतो हीनवणेखात पितृतो न्यूनो मातृतोऽधिक एव ब्राह्मणसदृशो मूर्दाभिषिक्तोऽभिधीयते, स च मातृवर्णनामा क्षत्रियवदुच्यते ; तृतीयायां वैश्यकन्यायां जातो यः पुत्रः सोऽपि पितृतो हीनवर्णवदोपान्मातुः वैश्यवर्णमातुरुत्तमपितृतो ब्राह्मणवर्णात् न्यूनरूपेण ब्राह्मणसदृशोऽम्बष्ठः वैश्यवर्णनानोच्यते, इत्यनन्तरनाम्नाभिधानं मनुनोक्तम ; विष्णुनाप्युक्तं-- “समानवर्णासु जाताः पुत्राः समानवर्णा भवन्ति, अनुलोमासु मातृवर्णाः पितृलोमासु आर्यविगहिताः इति मातृवर्णनामानोऽप्येते पित. सदृशखात् पितृवत् संस्कारादिक्रियाः कुर्युः ।” व्यासेनोक्तं-"विप्रवद्
इत्यन्तः स्नानमन्तः ; मैत्री सर्वभूतेष्वात्मनावाप्रतिकूला प्रवृत्तिः । ननु मैत्रीपरः स्यादिति विरुद्ध. मेतत्, येन, शास्त्रकार एवायं “दिग्धविद्धस्वयंमृतादिमांसपरित्यागेन वयःस्थत्वादिगुणयुक्तानां मृगादीनां सद्यस्कं मांसं सेव्यत्वेनोपदिशन् साक्षात् मैत्रीविरुद्धां हिंसामेवाह ; नैवं, रागत एवं प्राणिनां हिंसापूर्वकमांसभक्षणे प्राप्त अयम् आयुर्वेदोपदेष्टा मांसस्य क्वचिदरोगे कस्यचित् हितत्वं कचिञ्चाहितत्वम् उपदिशति, न तु मांसभक्षणं हिंसात्मक वा विदधाति ; न ह्ययं मदिराया अपि स्वस्थवृत्तेरोगिवृत्त वाहितत्वमुपदिशन् मदिरापानं प्रत्युपदेशा भवति । एवञ्च रोगाधिकारे राज
For Private and Personal Use Only