________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम् ।
४२६ न कार्यकालमतिपातयेत, नापरीक्षितमभिनिविशेत, नेन्द्रियवशगः स्यात, न चञ्चलं मनो भ्रामयेत् । न बुद्धीन्द्रियाणामतिभारमादध्यात्, न चातिदीर्घसूत्री स्यात्, न क्रोधहर्षावनुविदध्यात, न शोकमनुवशेत, न सिद्धावौत्मुक्यं गच्छेन्नासिद्धौ दैन्यम्। प्रकृतिमभीक्ष्णं स्मरेत् । हेतुप्रभावनिश्चितः स्यात् हेत्वारम्भनित्यश्च । न कृतमित्याश्वसेत, न वीयं जह्यात, नापवादमनुस्मरेत् । न सर्वाभिशङ्की स्यात्। न सर्वेषामेव सन्दे हकारी स्यात् । न सव्वकालविचारी स्यात् । स्पष्टम्।
न कार्यकालमतिपातयेत् अतीतं कुर्यात्। नापरीक्षितमज्ञातं स्थानादिक नाभिनिवेशं गच्छेत् । नेन्द्रियव शगः स्यात् इन्द्रियाणां वशगो न स्यात्। न चञ्चलमिति मनोविशेषणम्। हेखन्तरेण चञ्चले मनो न भ्रामयेन पुनश्चञ्चलं कुर्यात् । न बुद्धीत्यादि। बुद्धे रिन्द्रियाणामतिभावमतित्तिम् । दीर्घसूत्री चिरक्रियः। न क्रोधहर्षावनुविदध्यात् । यादृश्क्रोधस्तादृशमुग्रकर्म न कुर्यात्, एवं यादृशहर्षस्तादृशकायं न कुर्यात् । न शोकमनुवशेत् शोकवशगो न स्यात् । औत्सुक्यमतिहर्ष सिद्धौ जयादि क्रियासिद्धौ अभिमतकर्मणश्वासिद्धौ न दैन्यमत्यहर्ष गच्छेत्। प्रकृति स्वस्यापरस्य स्वभावं जन्मकारणादिगुणकर्मद्रव्याणि स्मरेत् ; तां हि स्मरन रागादिभिरभिभूतः स्यात् । हेतुप्रभावनिश्चितः स्यात् ; शुभाशुभहेतूनां शुभाशुभफल जनकताप्रभावावेशफले स्यात् इत्येवं निश्चितबुद्धिः स्यात्। हेखारम्भनित्यश्च स्यात शुभहेतुयोगेनारम्भतत्परः स्यादित्यर्थः । न कृतमित्याश्वसेदिति कृतमिति बुद्धग्रा आश्वासवान् न स्यात्। छान्दसखात् विकरणलोपव्यत्यये खलुक् शम्। न वीर्य जह्यात् पराक्रमं न जह्यात्। नापवादमनुस्मरेत् स्पष्टम् ।
चञ्चलमिति क्रियाविशेषणं, यदि वा मनोविशेषणम् । बुद्धरिन्द्रियाणां बुद्धीन्द्रियाणाम् ; अतिदीर्घसूत्री शतैकनिपाताशङ्की, किं वा दीर्घसूत्री चिरक्रियः। न शोकमनुवशेदिति न चिरं शोकवशगः स्थात्, उत्सेकमतिगर्वम् * प्रकृतिमुत्पत्तिकारणं स्मरेत्, प्रकृति पञ्चभूतलक्षणामनित्यां स्मरन् न * "उत्सेकम्" इत्यत्र "औत्सुक्यम्" इति क्वचित्; तदर्थस्तु अतिहर्षम् ।
For Private and Personal Use Only