________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम् ।
४२३ नोपाश्रितेभ्यो नापुण्यगन्धो नामालो नाप्रचालितपाणिपादवदनो नाशुद्धमुखो नोदङ्मुखो न विमना नाभक्ताशिष्टाशुचिक्षुधितपरिचरो न पात्रीष्वमेध्यासु नादेशे नाकाले नाकीणे नादत्त्वाग्रमग्नये नाप्रोक्षितं प्रोक्षणोडकैर्न मन्त्र रनभिमन्त्रितं न नाजपिला गायत्रादिकमजपिला न भुञ्जीत। नानिरुप्येति पितृभ्यः श्राद्धनिव्वेपणं न कृता न भुञ्जीत । श्राद्धान्नदानपर्यन्तकर्मतर्पणान्यतमनि+पणं कृला भुञ्जीत । नादत्त्वा गुरुभ्यो यथाशक्ति किश्चिदभोज्यम् । न चातिथिभ्योदत्त्वा नाप्युपाश्रितेभ्यो निकटस्थाश्रितेभ्योऽदत्त्वा भुञ्जीत। नापुण्यगन्धोऽमाङ्गल्यगन्धवान न तु भुञ्जीत, नामाली पुप्पमाल्याभाववान् न भुञ्जीत, न चापक्षालितपाणिपादवदनः “आई पादस्तु भुञ्जानः शतं वर्षाणि जीवति" इति चोक्तम्, नाशुद्धमुखः अनाचम्य, नोदङ्मुखः उत्तराभिसुखो न भुञ्जीत, लोकद्वयहितखाभावात्। “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः। धन्यं प्रत्यङमुखो भुङ्क्त ऋतं मुक्त हुपद ङ्मुखः ॥" इति महाभारतवचने। ऋतं यद् द्रव्यमाहरति तद्व्यगुणमात्रलाये सत्यमित्यर्थः। प्राङ्मुखादिभोजने खायुष्यखाद्यधिकगुणवात् सद्वृत्तसेवनेऽभिधानमिति। मनुवचनेनाप्युङ् मुखभोजनस्यान्नगुणातिशयगुणाभावात् उदङ्मुखान्यमुखभोजनस्य आयुष्यवादिगुणानुत्त्यादिविशेषगुणस्यापि लाभादुदङ्मुखभोजनं निषिध्यते । धन्यमित्यत्र श्रियमिति पाठे इच्छन्निति शेषः । इति कश्चित् । सर्वमायुप्यमित्यादिकं क्रियाविशेषणम् । न विमना अन्यमना न भुञ्जीत। नाभक्तत्यादि। अभक्तपरिचरः भक्तिहीनपरिचरः, अशिष्टपरिचरः अशुचिपरिचरः, सुधितपरिचरः सन् न भुञ्जीत । न पात्रीप्वमेध्यासु अमनोज्ञाशुचिपात्रीषु न भुञ्जीत । नादशे अप्रशस्तदेशे न भुञ्जीत। नाकाले कालो ह्यात्महितोऽभ्यासीकृतः साद्धप्रहरद्वयादृर्द्ध दिवा रात्री प्रहरादृद्ध न भुञ्जीत । नाकीर्णे अकीण संकोणदेशे न भुञ्जीत, न आकीर्णे बहुजनव्याप्ते इति वा। नादत्त्वाग्रमग्नये अग्नये भोज्यस्यान न दत्त्वा न भुञ्जीत । नामोक्षितं प्रोक्षणोदकर्वेदोक्तविधिना प्रोक्षितभिन्नमन्नं न भुञ्जीत। न मन्त्रैवेदोक्तमन्त्रैरभिमत्रितं न कृखा न भुञ्जीत । वेदे तु प्रोक्षणाभिहननाभिमन्त्रा
अनिरूप्यानिवेद्य, आकीर्णे बहुजनाकीर्णे ; अन्नस्य प्रोक्षणाभिमन्त्रणानि वेदे बोहव्यानि ;
For Private and Personal Use Only