________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
चरक-संहिता। इन्द्रियोपक्रमणीयः क्लमो नानाप्लुतवदनो न नग्न उपस्पृशेत,न स्नानशाच्या स्पृशेदुत्तमाङ्गम्, न केशाग्राण्यभिहन्यात्, नोपस्पृश्य ते एव वाससी विभृयात, नास्पृष्ट्रा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत, न पूज्यमङ्गलान्यपसव्यं गच्छेत्, नेतराण्यनुदक्षिणम्।
नारत्नपाणि स्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्यो पापसूचककर्म । नानिभृतोऽसमाहितः अगोपने इति वा। अग्निं वैतानिक वैवाहिकञ्च। नोच्छिष्टो भोजनावशिष्टयुक्तः सन्नग्निं लौकिकाग्नि “सामान्यशब्दस्य व्याख्यानतोऽर्थविशेषप्रतिपत्तिः न हि सन्देहादलक्षणम्” इति महाभाष्यात । न प्रतापयेत नाधः कृखा पादायः कृलाग्निमित्यन्वयः। नाविगतलमा श्रान्तः । न अनाप्लुतवदनः मुखं जलेनाप्लुतं यस्य स आप्लुतवदनः तद्भिन्नोऽनाप्लुतबदनः । न नग्नः दिगम्बरः सन उपस्पृशेत् स्नायात् । न स्नानशाच्या स्नातः परिहितवसनेनोत्तमाङ्गं शिरः स्पृशेत् । केशाग्राणि नाभिहन्यात् नोपस्पृश्येति उपस्पृश्य स्वाखा ते एव स्नानवाससी यद्वसनद्वयं परिधाय स्नायात तद्वसनद्वयं केशशरीरादिमार्जनानन्तरं निप्पीड्य वारिणा वा न विभृयात् परिदध्यात्। नास्पृष्टं त्यादि। अस्पृष्ट्वा रत्नानि मणिमुक्तादीनि, आज्यानि घृतानि, पूज्यानि शालग्रामादीनि, मङ्गलानि यान्यन्यानि, सुमनसः पुष्पाणि अस्पृष्ट्वा न निष्क्रामेत् स्वभवनात् कुत्रचिन्न गच्छत् । गृहात कुत्रचिद्गमन एतानि स्पृष्ट्वा गच्छेदिति भावः। न पूज्येत्यादि । पूज्यानि मङ्गलानि च शवशिवापूर्णकुम्भजलाहरणार्थगच्छद गृहीतापूर्णकुम्भव्यतिरिक्तानि अपसव्ययानं न गच्छेत् वामे कृखा न गच्छेदित्यर्थः ; शवादीनि वामे कृखा गच्छेत । एतानि विना इतराणि पूज्यमङ्गलेभ्योऽन्यानि अनुदक्षिर्ण न गच्छेत् दक्षिणे कृता न गच्छेदित्यर्थः ।
नारत्नपाणिरित्यादि नाददीतेत्यन्तमेकवाक्यम्। द्विजः पुरुषो नारत्नपाणिः रत्नयुक्तहस्तं विना नान्नमादतीत न भुञ्जीत। न चास्नातः, न चोपहतवासः परिहितवान्, न चाप्यहुखा देवताभ्यो नित्यहोममकृखा, हितः, नाधः कृत्वा अग्निमिति सम्बन्धः। ते एव वाससी स्नानवाससी इत्यर्थः यदि वा स्नानकालात् पूर्व पृते : अपसव्यं वामम् ।
For Private and Personal Use Only