________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम्।
४२१ सदनचैत्यचत्वरचतुष्पथोपवनश्मशानायतनान्यासेवेत । नैकः शून्यगृहं न चाटवीमनुप्रविशेत, न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत्, नोत्तमविरुध्येत, नावरानुपासीत, न जिह्म रोचयेत्, नाऽनार्यमाश्रयेत, न भयमुत्पादयेत, न साहसातिस्वप्नप्रजागरस्नानपानाशनान्यासेवेत, नोर्द्ध जानुश्चिरं तिष्ठेत, न व्यालानुपसर्पत न दष्ट्रिणो न विषाणिनः, पुरोवातातपावश्यायातिप्रवातान जह्यात, कलिं नारभेत, नानिभृतोऽग्निमुपासीत, नोच्छिष्टो नाधः कृत्वा प्रतापयेत्, नाविगतक्षपाखिति रात्रिषु, अमरसदनं, चैत्यं ग्रामस्यात्युच्चस्थानं, चखरमङ्गनम्, आयतनं वधस्थानम् । नैक इत्यादि स्पष्टम् । न पापवृत्तान् स्त्रीप्रभृतीन भजेत् । नोत्तविरुध्येत्। नावरानिति नीचान नोपासीत । न जिह्म न कुटिलं रोचयेत् । नानार्यमाश्रयेदिति शूद्रं नाश्रयेत् ; आरात दूरात् पापेभ्यो गच्छतीत्यार्यः, तद्भिन्नोऽनार्यः, ब्राह्मणक्षत्रिय वैश्ययोनिद्विजभिन्नः शूद्रः।।
न भयमुत्पादयेत् कस्यापीति शेषः। न साहसेत्यादि। अत्रातिशब्दस्य स्वप्नादिभिः प्रत्येकमन्वयान साहसं नासेवेत न चातिस्वप्नं न चातिप्रजागरं न चातिस्नानं न चातिपानं न चात्यशनम् आसेवेतेत्यन्वयः । साहसस्य न वेगान्धारणीय वर्जनविधिः, अत्र सद वृत्ततयोपदेशार्थमुक्तेर्न पुनरुक्तिः। नोद्ध जानुदेण्डायमानः सन् । न व्याडानुपसतानदंष्ट्रिणः सपेशूकरगजादिय॒हद्दन्तान नोपसत् समीपं न गच्छेत्। विषाणिनः शृङ्गिणः। पुरोवातः पूर्व दिश आगतवातः। अतिप्रवातः अतिशयप्रकृष्टवातः। कलिं ग्रामप्रधानतरुः ; आघातनं बधस्थानम् ; अवरा नीचा : जिह्म कुटिलम् ; आरात दूरात् पापेभ्यो यात आर्य्यः, तद्विपरीतोऽनार्यः ; अतिशब्दः स्वप्नादिभिः सह प्रत्येकं सम्बध्यते। इह च प्रकरणे साहस-नक्तं दधिभोजनादीनां येषां प्रकरणान्तर एव निषेधः कृतः, तानि पुनर्निषिध्यन्ते प्रकरणवशादेव, प्रकरणप्राप्तो ह्यर्थः प्रागुक्तोऽपि पुनरभिधीयमानः प्रकृतग्रन्थस्य न्यूनतामुदस्यति, पुनरभिधीयमानार्थ गौरवञ्च दर्शयति न पुनरुक्तदोषमावहति ; यदुक्तम् –“अधिकरणवशाद दााद गुणदोषप्राप्हितोऽर्थ सम्बन्धात् । स्तुत्यर्थ संशयतः शिष्यधियाञ्चाभिवृद्धयर्थम् । तन्त्रेऽस्मिन् पुनरुक्त पुनरुक्त नेप्यते तद्धि।" इति । ऊद्ध जानुर्दण्डायमानः, व्यालाः सर्पाः, असुनिभृतोऽसमा* आघातनेति चक्रः।
For Private and Personal Use Only