________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
चरक-संहिता। [इन्द्रियोपक्रमणीयः चरेत्, न तु ममारोहेत, न जलोप्रवेगमवगाहेत, न कुलच्छायामुपासीत, नाग्नुात्यातमभितश्चरेत, नोच्चैहसेत, न शब्दवन्तं मारुतं मुञ्चेत्, नासंवृतमुखो जम्भां चवथु हास्यं वा प्रवर्त्तयेत्, न नासिकां कुष्णीयात्, न दन्तान विघट्टयेत्, न नखान वादयेत, नास्थीन्यभिहन्यात, न भूमिं विलिखेत्, न च्छिन्द्यात् तृणम्, न लोष्ट्र मृद्गीयात्, न विगुणमङ्ग श्चेष्टेत, ज्योतीप्यग्निपञ्चामेध्यमशस्तश्च नाभिवीक्षेत, न हूं कुर्याच्छवम, न चैत्यध्वजगुरुपूज्याशस्तच्छायामाकामेत, न क्षपारवमरचोच्चावचप्रदेशेषु । न ठुममारोहेदिति सद वृत्ताधिकारादसत्फलायेति लभ्यते । तेन करमचितिक रसायनपादे आमलकीक्षारोहणं न विरुध्यते। न जलोग्रति स्पष्टम् । कुलच्छायां सत्कुलोत्पन्नानां स्ववंशोत्पन्नानां वा च्छायां नोपासीत पद्भग्रामिति शेषः। नाग्नुत्पातमुल्कापातमभितश्चतुःपार्वे कृत्वा न चरेत् ।।
नोच्चैहसेदिति स्पष्टम् । शब्दवन्तं मारुतमधोवायु शब्देन न मुञ्चेत्। नासंग्रतेत्यादि संतमुखेन जम्भां क्षवथु हास्यम् प्रवत्तयेत् । तेन हठान्मुखकुटिलखं भवति। न नासिकां कुष्णीयाद्विघट्टयेत्। न दन्तानित्यादौ न किश्चिद दृष्टफलं दृश्यते किन्सदृष्टफलजनकखादिह सद वृत्तोपदेशो बोध्यः । नास्थीन्यभिहन्यात् । न भूमिं लिखेत् व्यर्थ भूमिलिखनं न कुर्य्यात्। न च्छिन्द्यात तृणं व्यर्थ नखेन । न लोष्ट्र मृद नीयाद्वार्थ पदेन । न विगुणमङ्गविगुणं यथा स्यात् तथा नाङ्गैश्चेष्टेत। ज्योतींषि तेजस्वतां मूर्यादीनाम् । तत्राग्निं चामेध्यमशस्तं चिताङ्गारास्थ्यादिकम् । न ह्रकुर्याच्छवमिति यः शवं हूं करोति तेन सोमो वहिनिरस्तो भवतीत्यागमः” इति । न चैत्यध्वजादिच्छायामाक्रामेदुल्लङ्घयेत्। चैत्यो ग्रामदेवकुलसदृशगृहम् ध्वजस्य विशेषणम् । न न द्रुममारोहेदिति सामान्यो विधिरस्य च विशेषेण रसायनवक्ष्यमाणामलकीवृक्षारोहणोपदेशेन महाफलेन च बाधा भवत्येव ; कुष्णीयाद् विघट्टयेत् ; इह सवृत्तोपदेशे यत्र न नखान् वादयेदित्यादौ साक्षात् दृष्टमदृष्टं वा फलं न दृश्यते तत्राप्यरफलं वचनप्रामाण्यादेव बोद्धव्यम् । न शवं हूं कुर्यादित्यत्रागमः,-"यः शवं हूँ कुर्यात् तेन सोमो वहिनिरस्तो भवति" इति । चैत्यो * अनिष्ट इति चक्रः ।
For Private and Personal Use Only