________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'८म अध्यायः सूत्रस्थानम् ।
४१६ नान्यश्रियम्। न वैरं रोचयेत् । न कुर्यात् पापम् । न पापेऽपि पापी स्यात् । नान्यदोषान् ब यात् । नान्यरहस्यमागमयेत्॥
नाधार्मिकैन नरेन्द्रद्विष्टैः सहासीत; नोन्मत्तैः, न पतितः, न भ्रूणहन्तृभिः, न क्षुद्रः, न दुष्टैः। न दुष्टयानान्यारोहेत, न जानुसमं कठिनमासनमध्यासीत, नाऽनास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपदे त, न गिरिविषममस्तकेष्वनुधायाशनार्थ मिथ्यावचनं न विरुध्यते; परापकारार्थमनृतभाषणप्रतिषेधात् । उक्तश्चान्यत्र-"स्त्रीनर्ममृद्वाह विधौ तथैव सर्वेषु चैव व्यसनेषु नणाम् । प्राणात्यये सबंधनापहारे पञ्चानृतान्याहुरपातकानि ॥” इति वचनम् । नान्यस्व. माददीतेति स्पष्टम् । नान्यस्त्रियमभिलषेत् रन्तुमिति शेषः ; एतेनेन्द्रियजयसम्पत्तिः स्यात् । नान्यश्रियमित्यत्राभिलपेदित्यनेनान्वयः। स्वश्रीतयान्यश्रियं नाभिलपेदित्यर्थः । न वैरं रोचयेत्, न कुर्यात् पापमिति द्वयं सुगमम् । न पापेऽपि पापी स्यात् । पापेऽपि समुपस्थिते न च वारयितुमापाततः शक्येऽपि न पापी स्यात् ; तत् पापं न कुर्यात्। नान्यदोषान् ब्रूयादिति सुगमम् । नान्यरहस्यमागमयेत अन्येषां गुह्यतमं नोपदेशयेदन्यत्र । ___ नाधाम्मिकैः सहासीति परेणान्वयः, संसर्गादिपापं भवति तत्परिहारार्थम् । न नरेन्द्रद्विष्टैः सहासीत नरेन्द्रकोपसम्भवात्। एव नोन्मत्तैः सहासीत, न पतितैः सहासीत, न भ्रणहन्तृभिगर्भघातकः सहासीत, न क्षुदैर्नीचैः, न दुष्टैः खलचौरादिभिः सहासीत ; सर्वत्रान्वीयते सहासीतेति पदम् । न दुष्टयानं दुरभ्यस्तावादिम् । न जानुसमं कठिन. मासनमध्यासीत पतनभयात्। नानास्तीणमित्यादिकं शयनविशेषणम् । अनुपहितं शिरसोधो न्यस्तमुपधानं विना, अविशालमवहलम्, असममुच्चनीचम्। न गिरिविषममस्तकेष्वारोहेदिति गिरिषु विषममस्तकेषु
न तु परस्य जीवनार्थ मन्यथाभाषणम् ; उक्तञ्च-"प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि"। आगमयेद बुध्येत ; अधार्मिकसङ्गनिषेधैनैव पतितादिसङ्गनिषेधे लब्धे पुनस्तदभिधानं विशेषप्रतिषेधार्थम्। भ्रूणहा गर्भघातकः । अनुपहितमनुपधानं गण्डुकादिरहितम् ।
For Private and Personal Use Only