________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। इन्द्रियोपक्रमणीयः केशतुषोत्कर-भस्मकपाल-स्नानबलिभूमीनां परिहर्ता, प्राक् श्रमाद व्यायामवर्जी स्यात् । सर्वप्राणिषु बन्धुभूतः स्यात् । ऋद्धानामनुनेता, भीतानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसन्धः, सामप्रधानः, परपरुषवचनसहिष्णुः, अमर्षनः, प्रशमगुणदर्शी, राग पहेतूनां हन्ता॥
नानृतं ब्रूयात् । नान्यस्वमाददीत । नान्यस्त्रियमभिलषेत् कुत्सितक्सनप्रतिषेधः । अस्थि प्राणिनाम्, कण्टकं वृक्षस्य, अमेध्यमनीप्सनीयम् । केशः प्राणिमात्रस्य, लोमान्यत्राजिनादि मेध्यात, तुषं धान्यादेः, उत्करः शर्करा कङ्कर इति लोके, भस्म भसितं काष्ठादेः, कपालं घटादीनां खरं नरशिरः कपालञ्च, स्नानबल्योभूमिः, स्नानस्थानमन्यत्र जलाशयात्, बलीभूमिः पूजोपहारत्यागस्थानम्, एतेषां परिहर्ता परित्यक्ता स्यात् । प्राक् श्रादर्द्धशक्तितः, अर्द्धशक्तिपय्यन्तं व्यायाम कुर्यात् ततः श्रमे जायमाने व्यायामं त्यजेत् । सर्वप्राणिषु बन्धुभूतः स्यात् । क्रुद्धानामापाततोऽनुनेता विनयी स्यात् । भीतानामाश्वासयिता आश्वासवचनेन निर्भयखं कुर्यात्। दीनानामभ्युपपत्ता उपकारार्थ स्वीकर्ता। सत्यसन्धः सत्यसन्धीकृत् सत्यप्रतिज्ञः। सामप्रधानः । परपरुपवचनसहिष्णुः परेषां शत्रूणामितरेषां वा परुषस्य निष्ठुरस्य वचनस्य सहिष्णुः स्यात् । अमर्पमक्षमां हन्तीति अमर्षघ्नः क्रद्धानां क्रोधशान्तिकृत् । प्रशमगुणदर्शी प्रशमः शान्तिस्तदगुणेन द्रष्टुं शीलं यस्य स तथा स्यात् । रागद्वे पहेतूनां धनादिविभागाधिकाराद्यर्थकलहादीनां हन्ता स्यात् ।। - नानृतं ब्रूयात् असत्यं न ब्रयादिति तु धम्माविरोधिमिथ्यावाक्यादन्यत्र ; तेन राजयक्ष्मिणां काकादिमांसानि तैत्तिरिकादिमांसान्यभिसर्वप्राणिषु बन्धुभूत इति तु यद्यपि राजद्विपतितादीनामधर्मभयात् चिकित्सां न करोतीति तथापि तेष्वपि करुणार्द्रहृदयत्वेन मन्तव्यम् । अभ्युपपत्ता उपकारार्थं स्वीकर्ता, सत्यसन्धः प्रतिज्ञातार्थनिर्वाहकः, अमर्पोऽक्षमा तां हन्ती।त अमषन्नः, प्रशमं शान्तिं गुणत्वेन द्रष्टुशीलं यस्य स प्रशमगुणदर्शी।
नानृतं ब्रूयादित्यस्य राजयक्ष्मणि "काकांस्तित्तिरिशब्देन” इत्याद्ययथार्थभाषणोपदेशेन विरोधो न वाच्यः ; यतः-परापकारफलकमसत्यभाषणमनृतव्याहारदोषेण स्पृश्यते
* शमप्रधान इति चक्रपाणितः पाठः ।
For Private and Personal Use Only