________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम् ।
४१३ संयोगेन बुद्धया सम्यगवेक्ष्यावेक्ष्य कम्मणां सम्यक प्रतिपादनेन देशकालात्मगुणविपरीतोयसेक्नेन च ॥
तस्मादात्महितं चिकीर्षता सर्वेण सव्वं सर्वदा स्मृतिमास्थाय सदवृत्तमनुष्ठेयम् । तद्धानुष्ठानं* युगपत् सम्पादयत्यर्थद्वयमारोग्यमिन्द्रियविजयञ्च ॥८॥ योगाद्यनुपतप्तानामनुपतापाय बुद्धग्रा युक्त्या सम्यगवेक्ष्यावेक्ष्य विविच्य प्रकृतिभावे प्रयतितव्यम् । मनसस्तु स्वार्थातियोगाद्यनुपतप्तस्यानुपतापाय प्रकृतिभावे बुद्धया युक्तिबुद्धग्रा इदं हितमहितमिदमितिरूपेण सम्यगवेक्ष्यावेक्ष्य विविच्य कर्मणां सम्यक् प्रतिपादनेन वाङ्मनःशरीरप्रवृत्तीनामहितानां वर्जनेन प्रयतितव्यम्। देशकालात्मगुणविपरीतानां हितानामुपसेक्नेन च हेतुना पण्णामेवेन्द्रियाणामनुपतप्तानामुपतापाय प्रकृतिभावे प्रयतितव्यम्। आत्मगुणविपरीतेति प्रकृतिगुणविपरीतेत्यर्थः । एतेनासात्म्येन्द्रियार्थसंयोगपरिहारेण पञ्चेन्द्रियाणां प्रज्ञापराधपरिहारेण मनसोऽनागतबाधायाः प्रतिषेधः कर्तव्य इत्युक्तम् । कालगुणविपरीतोपसेवनेनेति वचनेन परिणामपरिहारेण पप्णामेवानागतव्याधिप्रतिषेधः कर्तव्य इत्युक्तम् । देशोऽत्र विशेषेण ज्ञापनार्थ पृथगुक्त इति ।
तस्मादिति। पुसा सात्म्येन्द्रियार्थसंयोगेन बुद्धया सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक्प्रतिपादनेन देशकालात्मगुणविपरीतोपसेवनेन च पञ्चन्द्रियाणामनुपतप्तानामनुपतप्तस्य मनसश्चानुपतापाय प्रकृतिभावे प्रयत्नस्य विधातव्यबाद्धेतोरात्महितं चिकीर्पता सव्वेण पुरुषेण सर्वदा स्मृतिमास्थाय सद्वृत्तं सद्भिरिन्द्रियपञ्चकेन मनसा वाचा कायेन त्यतेऽस्मिन् कर्मणीति तत्, सतामारोग्यवतां वा वृत्तं, साधु वा वृत्तं सद वृत्तमनुष्टेयम् । इन्द्रियवाङ्मनःशरीरप्रवृत्तिरूपमनुष्ठे यमाचरणीयम्। सन्तः खलु इह चामुष्मिंश्च लोके शान्तिशौचाचारादियोगजनितधर्माप्रभावात् त्रिवर्गमव्यतिरिच्य जना वर्तन्त इति । मूलाहितार्थप्रवृत्तिनिषेधेन हितार्थप्रवृत्तुपदेशः कृतो भवति । एतेनासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्यामनागताबाधप्रतिषेधरूपचेयोक्ता भवति। उत्पन्नविकारप्रतिषेधोपायस्तु देशकालेत्यादिना कथ्यते । गुणशब्दः प्रत्येकमभिसग्बध्यते, आत्मशब्देन प्रकृतिविकारयोर्ग्रहणं, तस्मात् कर्मणां क्रियारूपाणां शास्त्रविहितत्वेन प्रतिपादितानां सम्यगनुष्टानमारोग्यहेतुः, तच्च कर्म हितं
* तद्धरनुतिष्टन् इति चक्रपाणितः पाठः ।
For Private and Personal Use Only