________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
४:४
[ इन्द्रियोपक्रमणीयः
तत् सदवृत्तमखिलेनोपदेच्यामोऽग्निवेश ! तद्यथा - देव - गो-ब्राह्मण गुरुवृद्ध-सिद्धाचार्थ्यानर्च्चयेत् ।
-
च
Acharya Shri Kailassagarsuri Gyanmandir
नन् सदवृत्तं कस्मादनष्ठेयं न त्वसद वृत्तमित्याशङ्कयाह - तद्धीत्यादि । किञ्च तत् सदवृत्तं किंगुणमित्यत आह- तद्धीत्यादि । हि यस्मात् तत् सदवृत्तस्यानुष्ठानं युगपदर्थद्वयं सम्पादयति यदेवारोग्यं तदैवेन्द्रियजयम्, न तु कदाचिदारोग्यं कदाचिदिन्द्रियजयमिति । अर्थद्वयं विवृणोति आरोग्यमिन्द्रियजयञ्चेति ॥ ८ ॥
गङ्गाधरः -- तत् सद्वृत्तमखिलेन प्रायेण कात्स्न्येन वा यद्वा हि यस्मात् तदनष्ठानं युगपदारोग्येन्द्रियजयसम्पादकं तत् तस्मात् तत् सद्वृत्तमखिलेनोपदेक्ष्याम इत्यर्थः ।
इत्थञ्चाखिलेन सदवृत्ते सत्युपदेष्टव्ये मात्राशनादिकमातुराशनाचाराथ वेगधारणवज्जेनादयश्च ये सद्वृत्तरूपा उक्तास्तेभ्योऽवशिष्टं सार्व्वत्कं सदवृत्तमुपदिशति – तद्यथेत्यादि । तत्रादौ पूज्यत्वादाह देवेत्यादि । गुरुशब्देनात्र वर्णतोऽसवर्णानां शूद्रान्तानां पूर्वपूर्ववर्णो गुरुः । सवर्णतः पुन
तो ब्राह्मणानां शौय्यतः क्षत्रियाणां धनतो वैश्यानां वयसा शूद्राणामधिका ये ते गुरवः । सव्र्व्वेषाञ्च मातापितरौ पितृव्यादयश्च सम्पर्काः । असम्पर्कास्तु सवर्णा उत्तमवर्णाश्चेति विशेषेण वर्णतो गुरुः, कनिष्ठापेक्षया गरिष्ठत्वज्ञापनार्थम् । सव्वेषां मर्त्यानां देवा गुरवः । गावश्च मर्त्यानां ब्राह्मणादीनां नृणां गुरवः । ब्राह्मणा वर्णानां गुरवः । गुरवश्च वृद्धादीनां गुरवः । वृद्धाश्व सिद्धादीनां गुरवः । सिद्धास्तापसाः । ते पुनराचार्याणां गुरवः । इत्युत्तरोत्तराणां पूर्व्वपूर्व्वाच्चकखख्यापनार्थं तथैवानुपूर्व्या निर्देशः कृतः । आचार्यो ब्रह्मादौ गुरुः । एतच्चानुष्ठानं धम्मेद्वारेणारोग्येन्द्रियजयसम्पादकम् ।
1
1
सद्वृत्तानुष्ठानरूपं, तस्मात् कारणात् आत्महितं कर्त्तुमिच्छता स्मृतिमास्थायावधानेन सद्वृत्तोपदेशं स्मृत्वेत्यर्थः ; सतां वृत्तमनुष्ठानं देहवाङ्मनः प्रवृत्तिरूपं सद्वृत्तमनुष्ठेयम् । इह जन्मनि जन्मान्तरे शान्तिशौचाचारादियोगजनितधर्म्मप्रभावात् त्रिवर्गमव्याकुलमुपयुञ्जानास्तिष्ठन्तीति सन्त इत्युच्यन्ते, अधार्मिकास्तु विद्यमाना अप्यप्रशस्तावधानत्वेनासन्त इत्युच्यन्ते । सद्वृत्तानुष्टानं दर्शयति-तीत्यादि । सद्वृत्तानुष्ठाने नान्यश्रियमभिलषेदित्याद्यनुष्ठानेनेन्द्रियं यन्त्रयते, यन्त्रणाभ्यासात् तदिन्द्रियं जीयते इत्युक्तमिन्द्रियविजयचेति ॥ ८ ॥
चक्रपाणिः - यस्मादेवंगुणं सद्वृत्तानुष्ठानं तत् तस्मात् सद्वृत्तमुपदेक्ष्यामः, अखिलेन
For Private and Personal Use Only