SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ चरक-संहिता। [इन्द्रियोपक्रमणीयः तत्रं न्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिहेतुभिः। तद् यथा—सात्म्येन्द्रियार्थमिथ्यायोगः। तेभ्यो भवन्तीन्द्रियाणां मनसश्च वृद्धिहासान्यथाभावाः। सति च तथाले वृद्धद्यापि पुनरिन्द्रियाणां मनसश्च नानुवत्तेते सम्यगर्थग्रहणशक्तिरथेनाभिभूतत्वात् । तथाभूतेनायथास्वावस्थानात्। यथास्वावस्थो हि भावः सम्यग यथावकम्मे साधयितुमलं भवति वृद्धिश्चक्षुष्यादिना चक्षुरादीनान्तु सम्यगाहारादितः समवायेन भवति, भवति च सम्यगर्थग्रहणशक्त्यावरकदोषापहरणम्। तथा चक्षुषो भास्करायतितेजस्विनामुग्ररूपयोगात् तैजसांशट्टद्धौ तर्पकश्लेष्मणः क्षयात् स्वार्थस्य सम्यगग्रहणशक्तिः फलं हीयते । एवं श्लेष्मणा अनुतपितं हि चक्षुस्तेजोमयं सम्यगर्थं ग्रहीतुमलं भवतीति ॥७॥ गङ्गाधरः-एवं श्रोत्रानुकूलवातादीनामतिशब्दादिभिरभिभवाद् वृद्धावपि श्रोत्रादीनां सम्यक् स्वार्थग्रहणशक्तिर्नानुवर्तत इति। तत्र किं कर्त्तव्यमित्यत आह-तत्रेत्यादि। तत्र समनस्कानामिन्द्रियाणां स्वस्वातियोगादिभिः स्वस्वबुद्ध अपघातः स्यात् । मनोऽर्थातियोगादितश्च मनसो बुद्धचोपघातः स्यात् । तस्मिन्नुपधाते सति इन्द्रियाणां श्रोत्रादीनां पञ्चानां समनस्कानां मनःसहितानामर्थात् श्रोत्रस्पर्शननयनरसनघ्राणमनसामुपतापः स्यात् । तस्मादनुपतप्तानां षण्णां श्रोत्रादीनां स्वस्वार्थ रतियोगादियोगवर्जनेनानुपतापायानुपतापार्थ भाव्युपघातानुत्पत्तये प्रकृतिभावे स्वभावसत्तायां प्रकृत्यनुवृत्तौ एभिरव्यवहितोत्तरं वक्ष्यमाणहंतुभिरुपायः प्रयतितव्यं प्रयत्नवता भवितव्यं पुरुषेणेति शेषः। स्वस्वार्थरतियोगादियुक्तरुपतप्तानान्तु आतुर्याधिकारे वक्ष्यमाणहेतुभिः प्रकृतिभावे प्रयतितव्यमित्यर्थादेव लभ्यते। ___ तान् हेतूनाह-तद्यथेत्यादि। सात्म्येन्द्रियार्थसंयोगेनेति, सात्म्यानामिन्द्रियार्थानां सं सम्यगयोगेन हेतुना श्रवणादिपञ्च न्द्रियाणां स्वस्वार्थातिविकृतेर्हेतवो भवन्तीति वाच्यम्, अचिन्तनातिचिन्तनभयानकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धि - मपि विकृतां जनयतीति भावः ॥ ७ ॥ चक्रपाणिः-तदीदृशे कर्त्तव्यमाह-तत्रेत्यादि। अनुपतापायानुपघाताय, उपघातकहेतुवर्जनेनेत्यभिप्रायः ; प्रकृतिभावे निनिकारत्वकरणे भेषजोपयोगेनेत्यभिप्रायः। सात्म्येन्द्रियार्थसंयोगेन इति सात्म्येन्द्रियार्थसमयोगेन, बुद्धया सम्यगिदं मम हितम् इदं ममाहितमित्यवेक्ष्यावेक्ष्य, कर्मणां प्रवृत्तीनां सम्या प्रतिपादनेनेत्यहितकर्मपरित्यागेन हितकर्माचरणेन च, एतेन प्रज्ञापराध For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy