________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्याय
सूत्रस्थानम्। मनसस्तु चिन्त्यमर्थः। तत्र मनसो बुद्धेश्च त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति ॥ ७ ॥ दिन्द्रियार्थयोः समयोगात् पुनस्तु समनस्कमिन्द्रियं प्रकृति स्वभावमापद्यमानं यथास्वं तदिन्द्रियजां बुद्धिमाप्याययति सातत्येनानुवत्तेयद वद्धयति । ___ अथ वाह्यपञ्चेन्द्रियोपक्रमणमुपदिश्य आभ्यन्तरेन्द्रियोपक्रमणमुपदिशति, अत्र मनोऽथ प्रागनुक्तमुपदिशति-मनसरिखत्यादि। चिन्त्यमिति उक्तपञ्चेन्द्रियबुद्धि भिन्ना बुद्धिश्चिन्तात्रोच्यते, तद्विषयं चिन्त्यं, सुखदुःखेच्छाद्वीप प्रयत्नबुद्धाहकारस्मृतिस्मरणीयादिकं (चिन्त्यत्वेन मनोऽर्थः । न तु ग्राह्यखेनात्मग्राह्यखात् । ) तत्र तस्मिंश्चिन्त्येऽर्थे मनसः समानातिहीनमिथ्यायोगा बुद्धश्च धीधतिस्मृतिरूपायास्ततः समनस्कादिन्द्रियाच्च जाताया बुद्धश्च त एव समयोगादयो योगाः प्रकृतिविकृतिहेतवो भवन्तीति। तत्र चिन्त्ये मनसः समानयोगादिबुद्धेश्च प्रकृतेः स्वभावस्य हेतुर्भवति । तत्र चिन्त्ये मनसोऽतियोगहीनयोगमिथ्यायोगा बुद्धश्च । बुद्धर्मनसश्च विकृते द्धिहान्यन्यतररूपान्यथाभावरूपाया हेतवो भवन्ति । मनसश्चिन्त्यानामतिचिन्तनादचिन्तनान्मिथ्याचिन्तनाच्च मनोबुद्धविकृतिमापन्नता प्रज्ञापराध उच्यते। तेन मनःकायवाचां कम्मणामतियोगायोगमिथ्यायोगेभ्यो भवन्त्यागन्तवः शारीररोगाश्च, भवन्ति च लोभमोहादयो मानसरोगा इति प्रशापराधजाः।
नन्विन्द्रियेन्द्रियार्थयोमनोमनोऽर्थयोश्चातियोगात् कवायतियोगाद्वातादेवृद्रिरिव भवितुमर्हति। पञ्चेन्द्रियाणां मनसश्च कुतोऽर्थग्रहणेऽन्यथाभावः स्यादिति चेत् ? सत्यं ; स्वस्वार्थानामतियोगोऽयोगश्च द्विविधः। इन्द्रियाणां मनसश्च स्वस्वप्रभावात् अनल्पानतिशयितानामर्थानां सातत्येनोपयोगः । अतिशयितानाञ्च यदृच्छयोपयोगश्चातियोगः। सातत्येनानुपयोगस्वनल्पानतिशयितानां यदृच्छया चाल्पानामुपयोगश्चायोगः। अनल्पानतिशयितानां मनोऽननुकूलानां सातत्येनोपयोगः अतिशयमनोऽननकूलानां यदृच्छयोपयोगश्च । पूर्व मन उक्त तस्य ग्राह्य विषयमाह --मनसस्तु चिन्त्यमर्थ इति। इन्द्रियनिरपेक्ष मनो यद् गृह्णाति तच्चिन्त्यं, यदि वा, इन्द्रियगृहीतमेवार्थं यत् पुनरिन्द्रियनिरपेक्षं मनो गृह्णाति तच्चिन्त्यम्, एतच्च प्राधान्याटुक्त, तेन मनोऽर्थानां सुखादीनामनुपादानं दोषत्वेन नैवोद्भावनीयम्। त एवेति-मनोविषयस्य चिन्त्यस्य समयोगस्तथातिहीनमिथ्यायोगाश्च, प्रकृतिरविकारः स्वभाव इति यावत्, विकृतिर्विकारः; तत्र चिन्त्यस्य सम्यगयोगो मनसो मनोबुद्धश्च प्रकृतिहेतुभवति, अतियोगादयस्तु चिन्त्यस्य मनसो मनोबुद्धश्च चिन्तनध्यानादिलक्षणाया
For Private and Personal Use Only