________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१०
चरक संहिता |
[ इन्द्रियोपक्रमणीय:
समनस्कमिन्द्रियं
तदर्थातियोगायोग मिथ्यायोगात् विकृतिमापद्यमानं यथास्वं बुद्धपघाताय सम्पद्यते । समयोगात् पुनः प्रकृतिमापद्यमानं यथास्वं बुद्धिमाप्याययति ।
-
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धेः । प्राप्त्यर्थप्रकाशलिङ्गाच्च वृत्तिसिद्धिः । आत्मकृतभूतानामेकैकाधिकभूतस्य न्यूनाधिकाभ्यां भागगुणाभ्यामिन्द्रियाणां निष्पत्त्या तत्तान्तरत्वेनाहकारिकेन्द्रियतो विशिष्टत्वेन रूपादिष्टत्तिः सिद्धा । तत्ता हि तदात्मकृतैकैकभूताधिकपाञ्चभौतिकता । तेन तद्भौतिकमर्थं सम्बद्धं सर्पन्ति चक्षुरादीनीति | न तु वृत्तिग्रहणे द्रव्यनियमः । एकैकभूताधिकमिन्द्रियमेकैक भूताधिकमेव द्रव्यं गृह्णातीति नियमो लभ्यते, पृथिव्यम्बुगुणबहुलद्रव्ये मधुरो रसो रसनेनाम्बुगुणजलबहुलेन न गृह्यतामिति । अतो रसादिमात्रगुणनियम एव तद्गुणयोगात् । इत्येवमादि कपिलवचनं न विरुद्धं ज्ञेयम् ॥ ६॥
।
गङ्गाधरः -- इत्थमिन्द्रियेन्द्रियाधिष्ठानेन्द्रिय-द्रव्येन्द्रियार्थेन्द्रिय-बुद्धिमनांसि यथायोग्यं निद्दिश्योपदिश्य च तैरुपक्रमणं दर्शयति तदर्थेत्यादि । यद्यदात्मकमिन्द्रियं तदिन्द्रियस्यार्थेन सहातियोगात् रूपायतिदर्शनादितः अयोगात् सर्व्वशी रूपायदर्शनादितः मिथ्यायोगात् द्विष्टभैरवादिमूत्तिदर्शनादितः । स मनस्कं तदिन्द्रियमात्रस्य चेष्टा हेतुखापन्नेन मनसा सहैव तदिन्द्रिय चक्षुःश्रोत्रादिकं विकृतिं मनस्तदिन्द्रिय चेष्टाप्रयोजकता क्रियायां चक्षुरादिकन्तु स्वार्थग्रहणे चेष्टाया वृद्धिन्यूनान्यथाभावान्यतममा पद्यमानम् । यथास्वेति--तदिन्द्रियजबुद्धापघाताय सम्पद्यते इति पञ्चेन्द्रियबुद्धापघातेन भवन्तेन्द्रियकाः शारीररोगाः । रसनेन्द्रियार्थमिथ्यायोगात् समनस्करसनबुद्धापघातेन भवन्ति सव्र्व्वाङ्गावयवगज्वरादयः शारीररोगा इति । इति तु व्याधिहेतुत्वं स्वस्थाधिकारे दर्शितं तत्परिवर्जनार्थम् । सुतरां त्रिविधमिन्द्रियेन्द्रियार्थयोगं विहाय समयोगा
I
चक्रपाणिः -- शुभाशुभप्रवृत्तिहेतुरिति यदुक्तं तदुपपादयति, तदर्थेत्यादि । - तदिन्द्रियमर्थस्य रूपादेरतियोगो रूपाद्यतिदर्शनम्, अयोगो हीनमात्ररूपादिदर्शनं सर्व्वशो रूपाद्यदर्शनञ्च, मिथ्यायोगो विकृतबीभत्स रूपादिदर्शनं समनस्कं मनसा सहितं, विकृतिं विकारमापद्यमानम् । समनस्कमिति विशेषणं कुर्वन् चक्षुरापघातात् मनसोऽप्युद्विग्नत्वदुदैन्यादिलक्षणो विकारो भवतीति दर्शयति । यथास्वं या यस्यात्मीया बुद्धिः ; सामर्थ्ययोगात् समयोगात्, पुनः शब्दः पूर्व्वपक्षाद् व्यावर्त्तयति, प्रकृतिं स्वभावमनुपधीयमानमिन्द्रियमिति शेषः यथास्वं बुद्धिमाप्याययतीत्यात्मीयां बुद्धिं सातत्येन जनयतीत्यर्थः ।
For Private and Personal Use Only