________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टम अध्यायः ]
सूत्रस्थानम् ।
४०६
1
प्रभामन्धकारमातपालोकवदनुधावति। आकाशच अप्रतिघातमरूपं तद्वत्त्वेनोपचर्यते । स्त्रिग्धरुक्षविशदपिच्छिलादिकञ्च गृह्णाति न तु शब्दस्पर्शरसगन्धान् । स्पर्शनञ्च वायव्यं स्पर्शं शीतोष्णश्लक्ष्णखरादीनपि गृह्णाति । विशेषेण स्पर्श विपर्ययमप्रतिघातमाकाशं चानुधावति न च शब्दरूपरसगन्धान् । श्रोत्रं खान्तरीक्षं शब्दं गृह्णाति न स्पर्शादिकं । न वाऽऽकाशम् । रसनमाप्यं रसं गृह्णाति न शब्दादीन् । घ्राणं पार्थिवं गन्धमनुधावति न रसरूपस्पर्शशब्दादीन् इति । ननु रूपादयोऽर्थाः कथं चक्षुरादीनीन्द्रियाणि न गृह्णन्ति तुल्ययोनिलादितत्स्वभावादिति ? अत आह - विभुत्वाच्च । स्वाधिष्ठातृदेवतावनात्मकृतशुद्धभूतमयखेन च विभुत्वान् धावनादिक्रियावत्त्वादिसामर्थ्यात् तथा च चक्षुस्तैजसं तेजसं रूपमनुधावति, श्रोत्रमान्तरीक्षमान्तरीक्षं शब्दमनुधावति, अनुधावति तु स्पर्शनं वायव्यं वायव्यं स्पर्शम् रसनमाध्यमाप्यं रसमनुधावति, तथानुधावति घ्राणं पार्थिवं पार्थिव गन्धमिति । न गन्धादयो प्राणादीनि गृह्णन्ति । विशेषतो ग्रहणं बोध्यम् । गौतमेनाप्युक्त - " पूर्वपूर्वगुणोत्कर्षात् तत्प्रघानम्” इति । पृथिव्यादीनामुत्तरोत्तरभूतेषु गन्धादिपूपूगुणहासेऽपीन्द्रियादीनां पार्थिवादीनां रसादिग्रहणापचिर्न भवति, पूर्वपूर्वगन्धादे गुणोत्कर्षात् । घ्राणादीन्द्रियं तद्गन्धादिप्रधानम् । तथा च पञ्चभूतगुणवत्त्वेऽपि गन्धप्रधानं घ्राणमिन्द्रियम्, रसप्रधानं रसनं, रूपप्रधानं चक्षुः, स्पर्शप्रधानं स्पर्शनं, शब्दप्रधानं श्रोत्रमिति । ततो घ्राणेन लवणादयो न गृह्यन्ते, रसनेन रूपादय इत्येवमादि । गन्धादेकगुणोत्कर्षव्यवस्थानं प्राणादीनां तत्तदारम्भकपृथिव्यादीनां भूयस्त्वात् । सगुणानां हि पृथिव्यादीनां घ्राणादीन्द्रियरूपेण परिणामादिति । न चाकाशं चक्षुरनुधावति । “परन्तु मूर्त्तिमदद्रव्यविपय्येयस्याकाशस्य चक्षुरर्थाभावस्य चक्षुर्ज्ञानाभावेनाभावाख्यप्रमाणेन स्थिरगुरुवर कठिनसान्द्रादिरूपेण ज्ञातस्य धारणासामध्येंन निश्चयात् कूपपतनं गच्छतो न सम्भवतीति । तत्र तत्र तस्य तस्यार्थस्य प्राधान्येन प्रकाशकत्वादभिव्यक्तवाच्च ” इति कश्चित् एतेन कपिलोक्तसांख्यसूत्रम् आहङ्कारिकलश्रुतेन भौतिकानीति, न विरुद्रम्, अहङ्कारकाय्र्यप्रकरणोक्तानि यानि दशेन्द्रियाणि सूक्ष्मदेहस्थानि तानि न भौतिकानि आहङ्कारिकवश्रुतेः, सूक्ष्मदेहस्थानि तु अहङ्कारिकतत्तदिन्द्रियाधिष्ठितात्मकृतभूतकाधिकपाञ्चभौतिकानीन्द्रियाणि । न केवलं तेजोऽपतपंणात् तैजसं चक्षुत्तितो दृश्यवस्तुतो रूपरूपवदादितश्च भौतिकल
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only