________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। इन्द्रियोपक्रमणीयः स्पृशति स्पर्शनमित्येवमादि। यदि च रूपादीनां नीलपीतादिभेदेन चक्षुरादाकैकेन्द्रियार्थानां नानाखवदेकस्यैव स्पर्शनेन्द्रियस्य रूपाद्यर्थानां नानासमिति तथापि रूपखादिसामान्येन नीलपीतादीनामैक्यवद्रूपस्पर्शादीनामैक्यमर्थखादिति यत् तन्न युक्त भवति मनोविषयस्याप्यर्थवादिति। विषयवसामान्यात् स्पर्शरूपादीनामैक्यं भवति। रूपखादिसामान्येन नीलपीतादीनामिवेति चेत् ? न। बुद्धिलक्षणानामर्थानां पञ्चवादिन्द्रियाधिष्ठानानां पञ्चखाच्च । तत्र पञ्चेन्द्रियाणि सूक्ष्मदेहे हृदये तिष्ठन्ति । तत्र तिष्ठतामेव प्रसारणादि गमनावस्थानादिना चक्षुरादीनामर्थग्रहणाच । चक्षुर्हि हृदि तिष्ठत् स्वाधिष्ठानगोलकमधिष्ठाय वर्तमानं ज्योतिषः प्रसारणेनाथं गृह्णाति, स्पर्शनं खचमधिष्ठाय वर्तमानमेवार्थं गृह्णाति, श्रोत्रं कर्णावधिष्ठाय, घ्राणं नासिकामधिष्ठाय, रसनं जिह्वामधिष्ठाय वर्तमानमिति, गोलकाद्याकृतिविशेषण पञ्चखाच । तैजसखादिजातिपञ्चखाच्चेति ख्यापितं पञ्चमहाभूतविकारसमुदायात्मकानामिति वचनेनेति । अत्रापरे चक्षुगौलकाद्यधिष्ठानेषु सत्सु रुपादुरपलब्धिरनुपलब्धिश्चासस्विति । अतो भूतैकैकप्रधानपाश्चभौतिकाक्षिगोलककर्णखगजिह्वानासिकमेवाधिष्ठानतयोक्तम्। यत एवेन्द्रियाणि भवन्ति, न खपराणि सन्ति कानिचिदिति यद्वदन्ति तदपि निरस्तं सतामित्युपदेशेन । न हि तिमिरादिव्याधिश्चक्षुगौलकादो निव्वकल्ये केनापि द्रष्टु' शक्यते स्पष्टुं वेत्यादि।
न च दोषदृपितखेनाथग्रहणमिति चेत् ? तहि चक्षुरादीनां द्विखाद्यापत्तिः स्यात्. द्विवे हि सव्येनाक्षणा निमीलिते च दक्षिणेऽक्षिण यत् तथालेन पश्यता परिचीयते तथेतरेणापि। तत् सव्ये निमीलितेऽप्यक्षिगोलके दक्षिणेनाक्ष्णा पश्यता परिचीयते तदेवेति । अत्र केचिदेकस्मिन् नयनविनाशे तेन दृष्टस्यार्थस्य परेणाक्ष्णा प्रत्यभिज्ञानं मनसा प्राक् परिचितखादित्यतो नयनादेद्वि खमेव न खेकं नासिकया व्यवहिते द्विखेन दृष्टवादिति यदाहः तन्न। नासिकया व्यवधानेन चक्षुषोर्द्विवाभिमानादेव न वस्तुतः। न चैकाक्षिनाशे द्वितीयाक्षिनाशाभावान्न कथं नेत्रस्य द्विखमिति वाच्यम् एकावयवविनाशेऽप्यवयविनः प्रत्यभिज्ञानात् ? सावयवानामवयविनो वा नियमेन न नाशः स्यादिति। अतस्वेकगोलकविनाशे सति नान्धवं स्यादिति । दृष्टान्तविरोधशक्तत्वात्, समानजातीयतैजसादिग्रहण एव चक्षुरादीनां शक्तत्वादित्यर्थः। तदनेन ग्रन्थेन एतदनुमानमुपदिश्यते-एतच्चक्षुस्तैजसं, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् वाह्यालोकवत् ;
For Private and Personal Use Only