________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
सूत्रस्थानम् ।
४०७
श्चेत्, उच्यते— गोलकान्तरावस्थितावयवलेन चक्षुषो गोलकनाशे नाशाभावान्नित्यत्वाच्चेति पञ्चेन्द्रियाणीति वचनेनोपदर्शितम् । अत्र पञ्चेति संख्या खिन्द्रियाधिष्ठानान्येवेन्द्रियाणीति न युज्यते गोलकादीनि पुनभौतिकानि दृश्यन्ते । इन्द्रियाणि तु साविकात् खलु वैकारिकादहङ्कारात् तैजसाहङ्कारसहायादुत्पन्नान्युपदिश्यन्ते न च भांतिकानि । चक्षुरादिभिहि सूक्ष्मत्वेऽपि सूक्ष्मं वा महद्वा वस्तु गृह्यते । सत्त्वगुणस्य प्रकाशलक्षणखेन सात्त्विकाहङ्कारजखे सात्त्विकत्वेन प्रकाशात्मकखात् तच्च प्रकाशात्मकलं भौतिकले पुन सम्भवति अणुना महतो व्यापनासम्भवात् । न ह्यव्याप्यार्थग्रहणं सम्भवतीति । तत्रोवाचाक्षपादगौतमः -- “ रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्" इत्यर्थानामिन्द्रियेणाणुना तैजसरूपेण भूतैकैकप्रधानपाञ्चभौतिकेन रश्मिना सन्निकर्षविशेषादणूनां महताञ्च ग्रहणमुपपद्यते । यथा भौतिकेन प्रदीपादिनाऽणुना महदणु च वस्तु प्रकाश्यते । अत्र " तदनुपलब्धेरहेतुः” रश्मिस्वरूपेन्द्रिये - न्द्रियार्थसन्निकर्षो न तुगलकाद्यतिरिक्तस्य रश्मेरनुपलब्धेरिति न वाच्यम् । "नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभाव हेतुः” इति । अस्यार्थःअणुरूपादिशानेनानमीयमानस्य रश्मिस्वरूपचक्षुरादेरनावृतस्यापि प्रत्यक्षतोऽनपलब्धिर्नासद्भाव हेतुः । कथं तर्हि नोपलभ्यते ? उच्यते- “ द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः” द्रव्यस्य गुणस्य द्रव्यगुणस्योद्भूतखान तत्वधर्मभेदात् तदधीनत्वात् प्रत्यक्षस्य परमाण्वादिसाधारणद्रव्यगुणस्योपलब्धौ नियमः । उद्भ ूतस्य प्रत्यक्षमनद्भ ूतस्याप्रत्यक्षमिति । ननु चचुरादेरुद्धतरूपमेव न कथं प्रत्यक्षमिति चेत् ? उच्यते- “कर्म्म कारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः" इति । अस्यार्थः- पुरुषार्थोऽदृष्टविशेषः, तत्तन्त्रस्तदधीनेन्द्रियाणां व्यूहो निर्माणविशेषः । कम्र्मकारित इन्द्रियारम्भकाणां कम्पेविशेषेण प्रत्यक्षाप्रत्यक्ष योग्यतासाधनतया कारित इति चक्षुरादीनां न प्रत्यक्ष योग्य परिमाणमस्तीति । “मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः” इति । यद्वा वाह्यप्रकाशानुग्रहाद्विपयोपलब्धिरभिभवादनभिव्यक्तितोऽनुपलब्धिरिति । बाह्याला कैरनुग्रहाच्चचुरादिनार्थी गृह्यते । तस्मादनभिव्यक्ता न चक्षुरादीनामुपलब्धिरिति । अथ सूर्यप्रकाशादिसहकारेणार्थानां ग्रहणाच्चक्षुरादीनामुद्भूतरूपत्वेन वाह्यप्रकाशापेक्षा न स्यात् । रसनमाप्यं, रूपादीनां मध्ये रसस्यैव प्रकाशकत्वात् दन्तोदकवत् तथा गन्धः स्वजातीयगुणोत्कर्षवदिन्द्रियग्राह्यो भूतविशेषगुणत्वात रूपवदित्यादि ॥ ६ ॥
66
For Private and Personal Use Only