________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम् ।
४०५ ऽधिकलेन वर्त्तते, घ्राणे विन्द्रिये तथैव पाश्चभौतिके क्षितिरधिका वर्तते, रसने चेन्द्रिये तथैव पाश्चभौतिक आपोऽधिकाः, स्पर्शने विन्द्रिये तथैव पाश्चभौतिकेऽनिलोऽधिको वर्त्तते। इत्यभिप्रत्याह --विशेषेणेति। पञ्चमहाभूतविकारसमुदायात्मकखोपदेशेन चक्षुरादीनां तेजोमात्रादेवकैकभूताधिकपाञ्चभौतिकखे विशिष्टस्वरूपहेतुभावोक्तस्तेजोमात्राय कैकात्मकले तत्तदर्थग्रहणायोग्यवं वारितमेकैक भूतेभ्यश्च न विशिष्टस्वरूपसमिति ख्यापितमिति। सतामितिपदेन स्थूलशरीरविनाशेऽमीन्द्रियाणां नाशाभावस्तदधिष्ठानचक्षु\लकादिनाशश्च ख्यापित. । प्रत्येकमधिष्ठानोपदेशेन एकेन्द्रियवादो निराकृतः, पञ्चसु स्थानेषु एकैकस्य युगपदधिष्ठानानहलान् । पञ्चधाभूयेति चेत् ? न । पञ्चधाभावेऽपि उपादानान्तरापेक्षखात् । पञ्चधा स्वरूपेणैव प्रसिद्धति चेत् ? तर्हि पञ्चैव भवन्ति इन्द्रियाणीति । मनोवदेकमेवेन्द्रियं यदधिष्ठानं यदाधितिष्ठति तदा तदर्थं गृह्णातीति चेत् ? तदा तदधिष्ठानादपराधिष्ठानगमनेन खस्वाधिष्ठाने सततावस्थानाभावः स्यात् तदिष्टखे मनोवदाभ्यन्तरेन्द्रियखापत्तिर्यदि तत्र वाह्याधिष्ठानाद्वाह्यत्वमुच्यते तदा स्पर्शनस्य दर्शनादियोगपद्यापत्तिः सव्वत्रैव स्पर्शनेन्दियसत्त्वात्। विशेषणोपदेशेन पञ्चेन्द्रियाणां समपञ्चमहाभूतात्मकवं निराकृतम् । तथाखे हि पञ्चेन्द्रियाणां तुल्यः स्वभावः स्यात् ।।
ननु पञ्चानामिन्द्रियाणामेकं स्पर्शनेन्द्रियमिन्द्रियव्यापकं चेतःसमवायीति तिस्रं षणीये वक्ष्यति, तत् कथं पञ्चेन्द्रियाणि स्वीक्रियन्ते ? तेनैव ह्य केन स्पर्शनेन्द्रियेण सार्थानां ग्रहणं भवतीति चेन् ? न, युगपदेव पञ्चानामर्थानां ग्रहणापत्तेः । मनस एकखेन यत्रैव स्पर्शनेन्द्रिये योगस्तद्देशावच्छेद एव स्पर्शनेन्द्रियेणार्था गृह्यन्ते। अणुखाद्धि मनसो नैकदा सर्वस्पृश्यस्पर्शनं स्यादिति चेत् ? तदापि तद्देशावच्छेद एवं युगपत् सार्थग्रहणं स्यात्, स्पर्शनग्राह्या हि सर्वार्था इति । करचरणतलादिखगविशेषस्य भूतांशविशेषारब्धत्वेन वैशिष्टयादितरागावयवखचो रोमकूपादिमृदुखकाठिन्यादिभिः स्वल्पानल्पस्पर्शास्पर्शग्रहणवद् भूतविशेषारव्यखेन चक्षुगोलकीयादिखचां वैशद्यादिगुणविशेषण विशिष्टस्वरूपाणां स्पर्शनेन्द्रियाधिष्ठानानां रूपाद्यर्थयोगाद रूपादिग्रहणं स्यादिति न वाच्यम् । इन्द्रियार्थानां पञ्चलेन चक्षुरादीनामेकैकेन्द्रियस्यैकैकार्थग्राहकलात् । न हि रूपं मेव अर्थ विषयमनुगृह्णात्यनुधावति, यत् तेजःप्रधानं तत् तेज:प्रधानमेव विषयं गृह्णातीत्यथ: ; एवं पार्थिवादिष्वपि वाच्यम्। तत्र हेतुमाह,--तत्स्वभावात् विभुत्वाच्च, तत्स्वभावादिति ग्राह्याणां रूपादीनां यः स्वभावः तैजसत्वादिः, चक्षुरादीनामपि तत्स्वभावावेत्यर्थः, विभुत्वादिति
For Private and Personal Use Only