________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०१
८म अध्यायः
सूत्रस्थानम् । न्द्रियार्थस्पर्शकृतेन भावविशेषेणार्थ इन्द्रियेण गृह्यते। ततस्तदर्थज्ञानमुत्पद्यते । इत्येवमिन्द्रियार्थसन्निकपोत्पन्नमुच्यते ज्ञानम् । ___ अथालौकिकः सन्निको नास्ति गौतमायनभिमतखात्। न हि सामान्य घटखादिकं निखिलघटादिप्रत्यक्षे सन्निकर्पः । परोक्षविनष्टघटादिकमजानतां परोक्षविनष्टघटादीनामपि प्रत्यक्षापत्तेः। तथा गाङ्गपुष्करादिजलावगाहनफलस्य कूपादिजलस्पर्शनेनापत्तेः, स्वदारोपगमने सर्वनाय्युपगमनापत्तेश्च । नापि विशेषणविशिष्टयोविशिष्टवैशिष्टयावगाहि ज्ञानं सम्बन्धविशेषेण प्रत्यक्षे सन्निकर्पः। यतः प्राग्दृष्टः खड्गधरो यस्त्यक्तखड्गस्य तस्य दर्शनेन तखड़गस्य स्मरणं न तु प्रत्यक्षम् । न वा तत्पुरुषात् त्यक्तखड्गात् पूर्वतद्भयादिफलमिति ।
न चापि योगजः सन्निकर्षः। सर्वभावाणां याथायन प्रत्यक्षे तपोवलजातयुक्तयुञानज्ञानं ह्याप्तानामुपदेशप्रामाण्ये हेतुः । तज्ज्ञानवत्वादाप्तानां प्रामाण्यात् तस्मादाप्तोपदेशस्य प्रामाण्यमिति--आप्तोपदेशग्रहणेनाप्तत्य संग्रहात् । न हि तेन सन्निकण चाक्षुपादिप्रत्यक्ष भवति किन्तु दृष्टवन्मानसज्ञानमेव ; अतो न तत् प्रमाणान्तरम् । तज्ज्ञानं योगिनां न तु सर्वेषां; सजनस्य तु मानसज्ञानविशेषाणामनुमानादिसंज्ञकानांप्रमाणान्तरलेनोक्तखात् । तदतिरिक्तमानसशानन्तु सुखदुःखादिविषयकखेऽसार्वत्रिकलेन व्यभिचारात् प्रमाणवेनास्वीकारात पञ्चेन्द्रियबुद्धेः प्रामाण्येन प्रत्यक्षवं स्वीकृतम्, मानसप्रत्यक्षस्य न प्रामाण्यं स्वीकृतम् ; किन्तु प्रत्यक्षखमस्तीति तत्त्वम् । अव्यभिचारिण्य एवोक्ता एताः पञ्चेन्द्रियबुद्धयः प्रमाणमिति बोध्यम् । वक्ष्यति च तिस्रषणीये“आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्तते। व्यक्ता तदावे या बुद्धिः प्रत्यक्षं सा निरुच्यते ॥” इति । अस्य तु लक्षणस्यानेन लक्षणेन तुल्यार्थी न वोध्यः। तल्लक्षणं परीक्षाख्यप्रत्यक्षस्य यञ्च प्रत्यक्ष प्रमाणमुच्यते। इद तु प्रमाणाप्रमाणभूतपञ्चेन्द्रियबुद्धिलक्षणमिति। तस्मिन् लक्षणे व्यक्ता इति पदेनाव्यभिचारिणी बुद्धिलेक्ष्यते। न तु भ्रमसंशयावप्रमाणखात् । अत्र तु इन्द्रियबुद्धिमात्रस्यैव लक्ष्यवेन व्यक्ता इति नोक्तम् । एवं तदाखे इति दानप्रत्यक्षज्ञानानन्तरोत्पन्नानुमानस्मरणानुव्यवसायानां निरासः। अत्र तु प्रत्यक्षानुव्यवसायस्य लक्ष्यते तदास इति नोक्तम्। अनुमानस्मरणतदनव्यवसायानां मानसशानानां निरासस्तु चक्षुर्बुद्धवादिका इति निर्देशो लक्षणातिव्याप्तिवारणाय कृत इति। अस्याः पञ्चविधबुद्धेः प्रामाण्याप्रामाण्य
For Private and Personal Use Only