________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। झान्द्रयोपक्रमणीयः स्वरूपविशेषस्तद्रव्यगतरूपदशनेनैव प्रत्यक्षेणोपचयंते। व्यक्तिश्च तदरूपादिदर्शनेन प्रत्यक्षतयोपचर्यते। ... अथ समवायोऽपि न सन्निकर्षः। शब्दादीनां मृदङ्गादितः पुनरभिव्यक्त्यव्यक्तिभ्यां श्रोत्रादिपु शब्दादिसमवायस्यापि पुनःपुनरुत्पत्तिविनाशापत्तेः, तथाखे चानित्यखापत्तेः। नित्यवानित्यत्ववादेऽपि हि महान्धकार निशि स्वदेहदर्शनानांयामत्यद्ध नक्षत्रं पश्यति नात्मदेह मिति प्रतीत्या नक्षत्ररूपचक्षुपोर्न समवायः सम्भवति। न हि प्रबलान्धकारेणाभिभूतं खदेहरूपं तन्नक्षत्रालोकेनापि तदन्धकाराभिभूतखान्न द्रष्टुं शक्यते । न च कियहरबर्द्ध चक्षुस्तः प्रसरज्जयोतिपा किमधः प्रसरन्नक्षत्ररूपस्य समवायः सम्भवति । यतश्चतज्यौतिया समवायेनकीभूतं नक्षत्ररूपं सव्वम्। कथमन्यः पुमांस्तन्नक्षत्रं पश्यति ? कुतो वाल्पचक्षुज्योतिरन्यः पुमांस्तन्नक्षत्रं न पश्यति ?-इति वस्तुतत्वं पालोच्यते। चक्षुज्योतिः किं चक्षुरेव ? किं वा चक्षुषो रूपं ? न च चक्षुः। दृश्यचक्षुषोरभ्यन्तरं गच्छता कठिनद्रव्येण चनःप्रतिघातापत्तेः। नापि चतुपो रूपमेकजातीयगुणसमवायस्य तद्गुणाश्रयद्रव्यद्वयमन्तरेणासम्भवात् । सम्भवो हि कार्यारम्भकाणामनेकद्रव्याणां संयोगेन विभिन्नगुणानां सजातीयगुणसमवायेनैव विशिष्टतत्तद्गुणं द्रव्यं तद्भहुगुणमिति । ततः प्रसरणमिन्द्रियगुणानां, किन्तु स्वस्थानस्थमेवेन्द्रियं स्वस्वार्थग्रहणशक्त्यधिकखानधिकखाभ्यां कचित् पुसि दूरस्थमर्थं गृह्णाति, कचिच पुंसि न गृह्णातीति निष्कपः। अथालोकमहत्त्वोद्भ तत्वानां हेतुत्वकल्पने गौरवमभिभवादिराहित्यं हि सन्निकर्ष इत्येवं व्याख्यानावश्यकखात् । न हि अभिभवातिसन्निकर्षातिविप्रकर्षातिसौक्ष्माकरणदोब्बल्यमनोऽनवस्थानावरणसमानाभिहारात् प्रत्यक्षमिति । तमसाऽभिभवाद्रूपस्यालोकाभावे प्रत्यक्षं न स्यात् । सौक्ष्मान्महत्त्वाभावे च प्रत्यक्षं न स्यात्। ततोऽनुद्भ तानां न प्रत्यक्षमिति। आलोकादित्रयवचने शेषाणामलामान्यूनखमिति। सुतरां समवेतसमवायोऽपि न सन्निकर्षः। विशेषणता तु तदा सन्निकर्षः समवायस्य प्रत्यक्षं स्यात् । प्रकृते हि तस्य तन्नास्तीति । अतो गौतमादिभिः सन्निकर्ष इत्युक्तम्। इन्द्रियार्थवाभावेन तत्रेन्द्रियसन्निकर्षणापि विशेषणवेन प्रत्यक्षाभावात्। तस्मादतिसूक्ष्मखातिसन्निकर्षातिविप्रकर्षाविशदद्रव्यावरणकरणदोब्बल्यमनोऽनवस्थानसमानाभिहरणाभिभवानां प्रतिबन्धकानां विरहे सति सनिधानं सन्निकर्षः, तस्मिन् सति चेतःसमवायिसबेन्द्रियव्यापकस्पर्शने
For Private and Personal Use Only