________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
चरक-संहिता। इन्द्रियोपक्रमणीयः अथैतव्यस्य मानसशानं प्रति संयोगस्य हेतुवेऽपि द्रव्यचाक्षुषादौ चक्षुःसयोगादेहेतुखं न स्यात । चक्षुरादिसंयुक्तसमवायादेव द्रव्यचाक्षुषाप्रपपत्तेरिति चेत् ? न । चक्षुःसंयुक्तसमवायो हि चक्षःसंयुक्तमहदुद्भूतरूपवद्र्व्यसम. वायः। इतरथा चक्षुःसंयुक्तपरमाणुसमवायन द्रव्यखादिग्रहापत्तेः। घटादौ महत्त्वसमानाधिकरणस्यापि तत्र सत्त्वात् । तेन च त्रसरेणुप्रत्यक्ष व्यभिचारात् । द्रव्येतरद्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायस्य हेतुखमिति । द्रव्य. चाक्षुषे चक्षुःसंयोगोऽवश्यं सन्निकर्षः । एतेन संयुक्तसमवायो न सन्निकर्णः । संयुक्तसमवेतसमवायादेव घटरूपादीनां ग्रहणसम्भवादिति च निरस्तं, चक्षुःसंयुक्तपरमाणुसमवेतसमवायेन परिमाणवादिप्रत्यक्षापत्न्या चक्षुःसंयुक्तमहदुद्भ तरूपवद द्रव्यसमवेतसमवायोऽपि सन्निको वाच्य इति स च न द्रव्यसमवेतचाक्षुषमात्रे हेतुः, त्रसरेणु-तद्रूपादिग्रहे व्यभिचारात् : किन्तु द्रव्येतरसमवेतचाक्षुष एवेति। अथान्धकारस्थघटादिकं कथं चक्षुषा नोपलभ्यते चक्षुःसंयोगरूपसन्निकर्पसत्त्वात् ? उच्यते। चक्षुषा द्रव्यग्रहे महदुद्भतरूपवदालोकसंयोगः सहकारी हेतुर्न च सोऽस्त्यन्धकारस्थघटे इति। महद्भ तरूपयोहेतुवन्तु परमाणुतेजसि चक्षुःसंयोगव्यवच्छेदार्थमवश्यं स्वीकर्तव्यमिति। ननु चक्षुषा तेजःप्रत्ययो न स्यात् तत्र तेजःसंयोगाभावात् , प्रदीपे हि तत्प्रभासंयोगोऽस्तीति चेत् ? न, मणिप्रभादौ तदभावात् । दृश्यते च महान्धकारे चन्द्रकान्तादिमणिविशेषप्रभा। अथालोकेतरद्रव्यचाक्षुषं प्रति आलोकः सहकारीति चेत् ? न। महान्धकारे सुवर्णरुप्यतेजःसाक्षात्कारापत्तेः। अत्रोच्यते-द्रव्यचाक्षुषमात्र आलोकसंयोगो हेतुः। न चालोकचाक्षुयं व्यभिचारः आलोकाकाशसंयोगस्यालोके सत्त्वात् तस्य तन्निष्ठखात्। न चैवमन्धकारे स्वर्णसाक्षात्कारापत्तिः, अनभिभूतरूपवदालोकसंयोगस्यैव हेतुलात्, सुवर्णरूपं ह्यभिभूतम् अन्यथा सौवर्णरूपस्यालोकसंयोगतो द्रव्यान्तरप्रत्यक्षापत्तेरिति । अथ यदि समवायाभावो न स्तस्तदा विशेषणता न सन्निकर्षः स्यात् । वस्तुतो हि वर्त्ततेऽभावोऽप्यतिरिक्तः सम वायश्च सर्वमतसिद्ध एवेति । पड़ेव लौकिकसन्निकर्षा भवन्ति । अलौकिकस्तु सन्निकर्ण स्त्रिविधः सामान्य लक्षण-ज्ञानलक्षण-योगजभेदात्। तत्र सामान्य यावद् घटादीनां सन्निकर्ष एकघटादिप्रत्यक्षेण निखिलघटादीनां प्रत्यक्षजनक हि तद्घटादिस्थघटखादिकमिति। ज्ञानं पूव्व यद्दण्डवतस्तस्यैव पुरुषस्य तहण्डरहितस्य प्रत्यक्षज्ञानं तद्दण्डज्ञानजनकमिति विशिष्टज्ञानं वैशिष्टयशाने
For Private and Personal Use Only