________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः }
सूत्रस्थानम् ।
द्रव्यस्थानां शब्दस्पर्शरूपरसगन्धानां श्रोत्रादिसंयुक्तस्पशनाश्रयत्वक्समवायेन प्रत्यक्षम् । तथा समवेतसमवायेन चाक्षुषप्रत्यक्षम् | " द्रव्याणां तदद्रव्यगता गुणकर्म्मजातयस्तु तथा समवेताश्रयसमवायेन प्रत्यक्षेणोपचय्र्यन्ते ।” इति । गौतमेनाप्येवमुक्तम् । "गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः" इति । अत्र तदर्था इति घ्राणादीन्द्रियार्था इत्यर्थः । अत एवाधुनिकाः प्रमादिनस्तु “सन्निकर्षाः सहकारिणः । ते च द्विविधा लौकिकालौकिकभेदात । तत्र लौकिकसन्निकर्षाः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणता चेति षट्। तत्र द्रव्यं संयोगेन शब्देतरगुणः कर्म्म च द्रव्यगता जातिश्च संयुक्तसमवायेन भवति हि घटादिक चक्षुरादिसंयुक्तं तत्र समवेता रूपादिकस्पन्दद्रव्यवजातय इति । शब्दान्यगुणकर्म्मगता जातिः संयुक्तसमवेतसमवायेन भवति हि चक्षुरादिसंयुक्तं घटादिकं तत्र समवेतं रूपादिकर्म च । तत्र समवेता रूपत्वादिकम्मैखादिजातयः । शब्दः समवायेन कर्णशष्कुल्यवच्छेदेनाकाशे शब्दस्य समवायात् । शब्दगता जातिः समवेतसमवायेन । श्रोत्रसमवेतशब्दे शब्दत्वस्य समवायात् । समवायोsभावस्य विशेषणतया तत्र संयोगसमवाययोरसम्भवात् । सा च द्विधा - इन्द्रियविशेषणता इन्द्रियसन्निकृष्टविशेषणता च । शब्दाभावो गृह्यते श्रवणेन्द्रिये तस्य विशेषणत्वात् । अन्त्यया च भूतलादौ घटाद्यभावः । इन्द्रियसन्निकृष्टभूतले तस्य विशेषणत्वात् । तत्रान्त्या तु बहुधा लौकिकसन्निकर्षस्य बहुविधत्वात् । अत्र लौकिकसन्निकर्ष महत्त्वोद् भूतरूपा आलोकात्ममनइन्द्रियार्थास्तु लौकिकप्रत्यक्ष हेतवः । न तु प्रत्यक्षमात्रे ज्ञानलक्षणादिना वस्तुमात्रस्यैव प्रत्यक्षोत्पत्तेः । प्रत्यक्षस्य लौकिकलं तु नेन्द्रियसंयोगादिजन्यत्वमात्राश्रयात् । नापि विपयजन्यत्वं ज्ञानलक्षणाद्यजन्यखं वा तज्जन्यतावच्छेदकापरिचयात् । किन्तु विषयता विशेषः । जातेरांशिकत्वोपगमे चाक्षुषत्वादिजातिविशेषो वेति । ननु संयोगो न सन्निकर्षः संयुक्तसमवायेन घटादिग्रहसम्भवात् । इन्द्रियसंयुक्तं हि कपालाद्यवयवे घटादीनां समवायादिति चेत् ? न | आत्मनि तदसम्भवात् । आत्मनो हि न समवेतत्वमिति ।
तत्राद्यया
For Private and Personal Use Only
३६७
क्षणिका इत्याशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवदेकक्षणावस्थायिन्यः ; निश्चयात्मिका वस्तुस्वरूपपरिच्छेदात्मिका, क्षणिकत्वेऽपि वस्तुपरिच्छेदकत्वं प्रदीपाचैर्ज्वलनवद् बुद्धीनामविरुद मित्यर्थः ॥ ४ ॥