________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६६
चरक संहिता |
[ इन्द्रियोपक्रमणीयः
I
सह तेषामसंयोगाख्यपृथग्भावभिन्नापृथग्भावो योनिरुक्तः समवायः । एवेन्द्रियेन्द्रियार्थसन्निकर्षः, न तु संयोगः । वक्ष्यते ह्यात्रेयभद्रकाप्यीये"योगः सहसंयोग उच्यते । द्रव्याणां द्वन्द्वसव्वककर्मजोऽनित्य एव च ॥” इति । तेन द्रव्याणां सहयोगः संयोगः । न ह्यत्रार्थसंज्ञानि द्रव्याणि शब्दादीनामर्थवत्वेन निर्देशः । पाञ्चभौतिकस्येन्द्रियप्रतिनियतद्रव्यस्याभावादेकेन्द्रियग्राह्यत्वाभावाच्च । तद्यथा घटादिकं द्रव्यं पाञ्चभौतिक शब्दादिगगनगुणवत् स्पर्शादिवायुगुणरूपादितेजोगुणरसादिजलगुणगन्धादिपार्थिवगुणसमुदयात्मकं कथं पश्यति कथं वा जिघ्रति कथं रसयति कथं स्पृशतीति । तस्माद् यदा घटं पश्यतीति प्रयुज्यते तदा घटरूपं पश्यतीत्यर्थः I घटं स्पृशति घटस्पर्श स्पृशति । रसयति घटरसम् । जिघ्रति घटगन्धम् । शृणोति शब्दमित्येवार्थः स्यात् । अतः शब्दादय एवार्था न तु द्रव्याणि । भूतान्यपीमानि पाञ्चभौतिकानीति न तेषां संयोगः सन्निकर्ष इति । न च त्वग्रसनयोः स्पृश्याद्ययोः संयोगे सम्भवति च नयनत्राणश्रवणानां दृश्यत्र यश्राव्यसंयोगः सम्भवति । अपरञ्च सर्व्वेन्द्रियव्यापकस्पर्शनस्याधिष्ठानत्वचः संसर्गमन्तरेण शब्दस्यापि प्रत्यक्षं न भवति । शब्दप्रत्यक्षे समवाय एव सन्निकर्षः भवतां मतेऽपि सिध्यति यथा तथा रूपादिप्रत्यक्षेऽपि समवायः सन्निकर्षः स्यात् काप्यनुपपत्तिर्नास्ति । सर्व्वत्र रूपादौ चक्षुरादेः स्वसंयुक्तस्पर्शनेन्द्रियसंयुक्तत्वक्समवायः सन्निकर्षः स्पर्शप्रत्यक्षे तु स्पर्शनेन्द्रियस्य स्वसंयुक्तत्वक्समवायः स्पर्श इत्येषां स्पर्शकृतो भावविशेषः सन्निकर्षः । त्वक्समवायः शब्दादीनां त्वचः पवनाधिकपाञ्चभौतिकत्वेन स्पर्शग्राहिता । न तु सर्वेषां समयोनिखाभावादाधिक्येन पुनः स्पर्शग्रहणमस्पृश्यस्याप्रतिघातस्याकाशस्य च स्पर्शविपर्ययस्य ग्रहणम् । सर्वेषामर्थानां विपर्यया हि भावास्तदर्थग्राहकेन्द्रियविज्ञेया अनुमानेन कश्चिदाह प्रत्यक्षेण । कट्ठादिरसस्यापि रसनावच्छेदे खचो ग्रहणमिति नाशङ्काम् । तेषामौष्ण्यादिस्पर्शानां कादिरससहावस्थितानां त्वचा ग्रहणात् एतेनैव सन्निकर्षेण तद्भावस्य तदिन्द्रियेण ग्रहणात् तद्भावविपर्ययस्याप्यभावस्वरूपभावस्य तत्रासत्तया ग्रहणं भवत्येव । इत्थञ्च संयोगादीनामपि चक्षुः प्रत्यक्षग्रहणमाश्रयप्रत्यक्षग्रहणपरम्परया साक्षादेव वा तेनैव सन्निकर्षेण स्पर्शनकृतेन तद्ग्रहणं भवति तथास्वभावादिति । सन्निकर्षः सम्बन्धः, स च क्वचित् संयोगः क्वचित्समवाय: ; तेन चक्षुर्बुद्वपादावात्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः समवाय इति विशेषः ।
5
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only