________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः सूत्रस्थानम्।
३६५ पञ्चे न्द्रियबद्धयश्चक्षुर्बुद्धादिकाः। ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः, क्षणिका निश्चयात्मिकाश्च । इत्येतत् पञ्चपञ्चकम् ॥ ४॥
पञ्चेन्द्रियबुद्धय इति। चक्षुबुद्धवादिकाः---चक्षुपा सयोनिग्राह्यग्रहणाभ्यां जाता बुद्धिश्चक्षुर्यु द्धिः। आदिना श्रोत्रबुद्धिः घ्राणबुद्धी रसनबुद्धिः स्पर्शनबुद्धिश्चेति पञ्चेन्द्रियबुद्धय इति। नन्विन्द्रियेभ्यो बुद्धयः कथमुत्पदान्त : इत्यत आह---ताः पुनरित्यादि। इन्द्रियाणि पञ्च चक्षुरादीनि। इन्द्रियार्थाः पञ्च निरुक्ताः शब्दादयः। सत्त्वं मनः। आत्मा पुनश्चेतनाधातुः। तेषां सन्निकर्षः सानिध्यमतिसन्निकर्पादिराहित्यं, तस्माज्जायन्ते इति तथा । परमते सत्त्वस्येन्द्रियखानुमतखे स्वमते चेन्द्रियवाभावेन इन्द्रियेन्द्रियार्थाभ्यामुत्तरं सत्त्वस्व ग्रहणात् मनःपुरःसराणीत्यादिवचनाच चक्षुरादिप्रत्येकेन्द्रियस्य तदर्थसन्निकर्षे सत्त्वात्मनोः सन्निकर्षाधीनवं ज्ञापितम्। मानसमात्रबुद्धिरत्र नष्टा सत्त्वार्थसन्निकर्षावचनात् । स्वमते चेन्द्रियवाभावान्नेन्द्रियोपक्रमे निद्दिष्टा मानसी बुद्धिः पृथक् च वक्ष्यते। ततो न प्रतिषिद्धा। तथा च चक्षुश्चक्षुरर्थसत्वात्मसन्निकर्षजा चक्षुवुद्धिः। श्रोत्रश्रोत्रार्थसत्त्वात्मसन्निकर्षजा श्रोत्रबुद्धिः। घ्राणघ्राणार्थसत्त्वात्मसन्निकषजा घ्राणबुद्धिः। रसनरसनाथसत्त्वात्मसन्निकर्षजा रसनबुद्धिः । स्पर्शनस्पर्शनार्थसत्त्वात्मसन्निकर्षजा स्पर्शनबुद्धिरिति। तत्र सन्निकर्णस्तु खलु सन्निधानम्। तच्च तत्तदिन्द्रियतत्तदिन्द्रयार्थयोः प्रभावपरिमाणाभ्यां यावन्तं देश व्याप्य प्रसराभिव्यक्ती स्यातां तावद्देशाव्यवधानम् । तथा सन्निकर्प' सम्भवति चात्मनस्तदर्थग्रहणे प्रत्तिजातमनःसन्निधानं सन्निकर्षः। तेन प्रवत्तितसत्वस्य तदिन्द्रियाभिधारणं सन्निकर्षः। तेनेन्द्रियं तत्रार्थे ग्रहीतु चेष्टत इत्येवमात्मप्रवृत्तिनियुज्यमानमनःप्रसारप्रजुष्टयदिन्द्रियार्थसन्निकण यज्ञानं जायते सा तदिन्द्रियबुद्धिः।
नन्वेवमुक्त इन्द्रियन्द्रियार्थसन्निकर्षः कः पदार्थ इति चेत् ? तत्र केनचिदुच्यते--इन्द्रियाणि द्रव्याणि पाञ्चभौतिकवात् । अर्थास्तु गुणाः। तैः ___ असाधारणेन कारणेनेन्द्रियेण व्यपदिष्टा बुद्धय इतीन्द्रियबुद्धयः ; चक्षुषाऽसाधारजोन कारन जनिता बुद्धिश्चक्षुर्बुद्धि ; एवं श्रोत्रादिबुद्धिषु वाच्यम् । इह चक्षुबुद्धिरादावुपदिश्यते चक्षुबुद्धरेव बहुविषयत्वात् । इन्द्रियबुद्धपत्पादसामग्रीमाह-ताः पुनरित्यादि।
For Private and Personal Use Only