SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८६ चरक संहिता | [ इन्द्रियोपक्रमणीयः 1 यत् तदतीन्द्रियम् । चक्षुरादिभ्योऽतिशयेन्द्रियत्वम् । चक्षुरादीनां दशानां बुद्धिकम्मे न्द्रियाणां स्वस्वार्थ चेष्टाहेतुत्वमधिकार्थलञ्च तदर्थेत्यादिनात्रैव वक्ष्यति । मन्यतेऽनेनेति मनः सत्त्वमित्येषा संज्ञा सत्त्वप्राधान्यात् यस्य तत् सत्त्वसंज्ञकम् । चेत इति चेतत्यनेनेति चेतः । स्वरूपलक्षणार्थं सत्त्वसंज्ञकमित्याहङ्कारिकसत्वविकारसवप्रधानत्रिगुणकत्वात् कम्तो लक्षणार्थेन्तु मनश्चेतश्चेति द्वयं ज्ञानचैतन्यसाधकतमत्वात् इति । केचित् तु दश वहिरिन्द्रियाणि चखाय्र्यन्तःकरणानि चित्तमनोबुद्धाहङ्कारा इति । तत्र चैतन्यसाधनावस्थं शुद्धसत्त्वात्मको महांश्चेतश्चित्तमुच्यते बुद्धिसाधनावस्थं मनो मन एव बुद्धिः सूक्ष्मदेहस्थाहङ्कारात् स्थूलदेहे जाता मनसि तिष्ठति या खल्वात्मेन्द्रियमनोऽर्थसन्निकर्षादभिव्यज्यते पड़ विद्या । तन्मतमिह स्थूलशरीरनिर्णये हित्वा बुद्धप्राश्रयमनोवादिमतमनुमन्याह -- इत्याहुरेके इति । अनुमते चेन्द्रियत्वे मनसो यत्, षड़िन्द्रियाणीति नोक्त्वा पञ्चेन्द्रियाणीत्युक्तं तेनैवं ज्ञापितं तन्त्रेऽस्मिन् यत्रेन्द्रियपदं प्रयोक्तव्यं तत्र पञ्चानामेवेन्द्रियाणां ग्राह्यत्वं न मनस इति पर्यायकथनं शास्त्रे व्यवहारार्थं स्वरूपतो लक्षणार्थञ्च । इत्याहुरेके इति कणादादयः । परमतोपदशनमित्येतच्चाप्रतिषेधादनुमतं चेन्मनस इन्द्रियत्वं तर्हि कुतो हेतोर्ने न्द्रियत्वेन मनसो ग्रहणमित्यतो मनसोऽतिशयत्वमिन्द्रियेभ्यश्चक्षुरादिभ्यो दर्शयति - तदर्थेत्यादि । तन्मनः खलु तस्य मनसो अर्धा भावाश्चिन्तनीयाः, विधार्थ्याश्च । आत्मा चेतनाधातुः तयोः सम्पत् तदर्थात्मसम्पत्तदायत्ता चेष्टा व्यापारो यस्य तत् तथा । तत्र तदर्थसम्पत् सुखादीनां सन्निकर्षश्चिन्त्यादीनामाभिमुख्यञ्चेति कश्चित् । वस्तुतश्चिन्त्यादीनामर्थानामात्मस्पृहणीयत्वाभावाव्यापहितत्वं मनोऽर्थसम्पत् । सुखादयो हि न मनोऽर्था आत्मप्रत्यक्षत्वात् । वक्ष्यते हि " तत्रात्मप्रत्यक्षाः सुखदुःखेच्छाद्वे पादयः" इति । आत्मसम्पन्मनोऽर्थग्रहणे चैतन्यबुद्धीच्छादिमत्त्वं शारीरत्वादात्मनः सगुणस्य शारीरमानसरोगाद्यनभिभूतत्वञ्च । चेष्टा तु मनसः प्रवृत्तिः । सुखादिज्ञाने चित्तस्य मित्युक्त; यदि वाऽतीन्द्रियमिति चक्षुरादिभ्योऽप्यतीन्द्रियेभ्यः सूक्ष्मतरं दुरबबोधात् सत्वमित्येषा संज्ञा यस्य तत् तथा । चेत इत्याहुरेक इत्यादि परमतस्याप्रतिषेधात् स्वयमप्यनुमतं, पर्यायकथनं शास्त्रव्यवहारार्थम् । तदिति मनः, तस्याऽर्थो मनोऽर्थः स च सुखादिश्चिन्त्य - विचार्य्यादिश्व, आत्मा चेतनप्रतिसन्धाता, अनयोः सम्पत् तदर्थात्मसम्पत्, एतदायत्ता चेा व्यापारो यस्य तत् तथा । तत्रार्थसम्पत् सुखादीनां सन्निकर्षश्चिन्त्यादीनामाभिमुख्यञ्च, आत्म For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir " 1
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy