________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्याय |
सूत्रस्थानम् ।
३८७
चिन्तनादिकतर्कवितर्कादि तथा चक्षुरादीन्द्रियमं रणञ्च । चेष्टाप्रत्ययभृतमिन्द्रियाणां चक्षुरादीनां या चेष्टा स्वविषयरूपादिग्रहणे प्रवृत्तिस्तत्प्रत्ययभूतं कारणमित्यथः । एतेनतदुक्त भवति-यदा सुखादयश्चिन्त्यादयश्च विषया भवन्ति, आत्मा च तत्र बुद्धयादिपूव्र्वकप्रयत्नवान् भवति, तदा मनः स्वविषये ग्रहणार्थं प्रवर्त्तते । यदात्मा चेन्द्रियार्थे बुद्धादिपूर्वकप्रयत्नवान् स्यात् तदा तेन नियुक्तं मनोऽधितिष्ठति चेन्द्रियाणि । इन्द्रियाणि च तदधिष्ठितानि सन्ति स्वस्वविषये प्रवर्त्तन्ते इति कथिदाह । वस्तुतस्तु यथा मनस्त्वर्थात्मसम्पदायत्तचेष्टं भवति, तथा चक्षुरादिकमपि स्वस्वार्यात्मसम्पदायत्तचेष्टं भवति । इतीन्द्रियसामान्यलक्षणत्वादिन्द्रियत्वं मनसो दर्शितमिन्द्रियेभ्यो दशभ्योऽतिशयखन्तु चेष्टाप्रत्यय भूतमिन्द्रियाणामित्यनेन दर्शितमिति । न चात्मन्यप्रयतमाने स्वार्थ रूपादौ चक्षुरादिकं चेष्टते । न चासत्यां रूपादिसम्पदि प्रयतमानोऽप्यात्मा प्रभवति रूपादीन् ग्रहीतुमित्यर्थात्मसम्पदिति । अर्थात्मसम्पदि सत्यामात्मा प्रयतमानोऽर्थं ग्रहीतुं प्रभवतीति । अतिप्रसङ्गवारणायाह - चेष्टेत्यादि । चक्षुरादेः श्रोत्रादीन्द्रियचेष्टासु प्रयोजकत्वाभावान्न मनः संज्ञत्वमिति । अत्रेन्द्रियपद बुद्धीन्द्रियकम्म न्द्रियोभयपरम् । आत्मनोऽर्थाः सुखादयः, स्वसम्पदायत्तचेष्टाभावात् तु नातिप्रसङ्गः । समानयोनिकत्वं ह्यर्थत्वम् । प्रत्यगात्मनो योनिरस्ति, दीप्ताग्नितः स्फुलिङ्गव्युच्चारवनमहतो यथा तथात्मानो व्युचरन्ति महत एवात्मतः । सुखासुखादीनाञ्चात्मयोनिक मिति, जगतां सत्त्वरजस्तमोयोनित्वेन सत्त्वादियोनिकस्य मनसोऽर्थो जगदिति । सत्त्वादिपरिणानेन ब्रह्मवैवर्त्त्यात् न ब्रह्ममात्र योनिकत्वं जगतः परन्तु ब्रह्मविवर्त्तकसच्वादिगुणयोनिकत्वम् । भावानामाकाशविवर्त्तकवाय्वादिचतुर्भूतयोनिकलवत् । तथात्वे पाञ्चभौतिकखव्यपदेशवदब्रह्माधिष्ठितगुणमयत्वव्यपदेशो गुणविशिष्टब्रह्ममयं जगदिति । न च सत्वरजस्तमसां ब्रह्मयोनिकत्वेन ब्रह्मयोनिकस्यात्मनो जगदर्थः । आत्मा हि ब्रह्मणोऽशोऽविशेष
1
सम्पदर्थग्रहणे प्रयत्रशालित्वं मनश्चेष्टा च सुखादिज्ञानं तथा चिन्त्यचिन्तनादि तथा चक्षुरादीन्द्रियप्ररणञ्च इन्द्रियाणां चक्षुरादीनां या चेा स्वविषयरूपादिज्ञानलक्षणा, तत्र प्रत्ययभूतं कारणभूतं मन इति योज्यम् । एतेनैतदुक्तं भवति-यदा सुखादयश्चिन्त्यादयोऽपि विषया भवन्त्याऽऽत्माच प्रयत्नवान् भवति, तदा मन: स्वविषये प्रवर्त्तते इन्द्रियाणि चाधितिष्ठति, इन्द्रियाणि च मनोऽधिष्टितान्येव स्वविषयज्ञाने प्रवर्तन्ते ॥ २ ॥
For Private and Personal Use Only