________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् ।
३८१ * अलक्ष्मीदोषयुक्तत्वान्नक्तन्तु दधि वर्जितम्। श्लेष्मलं स्यात् ससर्पिष्कं दधि मारुतसूदनम् ॥ न च संधुक्षयेत् पित्तमाहारञ्च विपाचयेत्। शर्करासंयुतं दद्यात् तृष्णादाहनिवारणम् ॥ मुद्गसूपेन संयुक्त दद्याद रक्तानिलापहम् । सुरसञ्चाल्पदोषञ्च क्षौद्रयुक्त भवेद दधि ॥
उष्णं पित्तास्त्रदोषान् धात्रीयुक्तन्तु निहरेत् । मेवास्तीत्याशङ्कायामाह-यस्मिन् यद्धितं यस्मिंश्चाहितं तत्तदाप्तोपदेशेन विज्ञाय यस्मिन् यदहितं भवति तस्मिन यथा हितं भवति तथैवाप्तोपदेशेन विज्ञाय तत् सेव्यमिति ज्ञापयितु दिङ्मात्रमुदाहत्त मनेकविधया अहितस्य दनः सेवनं हितं यथा स्यात् तत्तदुपदिशति---न नक्तमित्यादि। अत्र नयां प्रसज्यप्रतिषेधार्थत्वेन यदि दधि भुञ्जीत तदा रात्रीतरकाले घृतेन भुञ्जीत शकेरया सह भुञ्जीत मुद्गणेण भुञ्जीत क्षोद्रेण भुञ्जीत शीतलं भुञ्जीत आमलकैश्च भुञ्जीतेति रागमाप्ते प्रसज्यप्रतिषिद्धं, न तु पय्यु दासार्थेन ना दिवादिविधीयते इति बोध्यम् । नक्तमादिनिषेधवीजमाह-अलक्ष्मीत्यादि। नक्तम् अलक्ष्मीरेव दोषस्तेन युक्तखात् योगात् नक्तं दधि वज्जनीयं, तुश्चार्थे। दधि स्वभावतो हि श्लेष्मलं मारुतसुदनं पित्तसन्धुक्षणम्। तच्च ससर्पिष्कं चेत तदा श्लेष्मलं मारुतमूदनञ्च स्यादेव पित्तं न च सन्धुक्षयेत् आहारञ्च वह्निवलमादधत् विपाचयेत् । अल्पदोषमल्पकफकरम् । उष्णं दधि पित्तात्रकृद्भवति। तदितरत् तु न पित्तास्रकृत्। दोषान सश्चितान । एतेन रात्रीतरकाले दिवेति यावत्। घृतायन्यतमसहितं दधि भुञ्जानो यथोक्तगुणं लभते। इत्येवंविधयाप्तोपदेशेनाहितमपि कल्पनया हिततया सेवितव्यमिति ख्यापितम्। उष्णदघि सर्वथैव न सेव्यम् ; अधृतशर्करमित्यादौ च निषेधो नत्रा सम्बध्यते, तेनोभयप्रतिषेधात् सशर्करं भुञ्जीतेत्यादि वाक्यार्थो भवति ; तेन घृतादीनां मध्येऽन्यतमसम्बन्धेनापि दध्युपयोज्यं भवति । न नक्तमित्यादिवदिहापि नकारस्य क्रियासम्बन्धे मुद्गसूपसहितस्यापि अशर्करत्वमस्त्येव दघ्न इत्यनुपादेयत्वं स्यात् । जतूकर्णेनापि घृतादीनां मिलितानामेवोप
+ अलक्ष्मीत्यादि-निहरेदित्यन्तः पाठः न सर्वसम्मतः ।
For Private and Personal Use Only