________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
चरक-संहिता। (न-वेगान-धारणीयः ज्वरास्ट्रपित्तवीसर्प-कुष्ठपाण्डामयन्त्रमान्। प्राप्नुयात कामलाञ्चोग्रां विधिं हित्वा दधिप्रियः॥३२॥
तत्र श्लोकाः । वेगा वेगसमुत्थाश्च रोगास्तेषाञ्च भेषजम् । येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम् ॥ उचिते चाहिते वज्ये सेव्ये चानुचिते क्रमः। यथाप्रति चाहारो मलायनगदौषधम् ॥ भविग्यतामनुत्पत्तौ रोगाणामौषधञ्च यत्। वाः सेव्याश्च पुरुषा धीमतात्मसुखार्थिना ॥ नवविधिना दधिभोजने कि दोषभाक स्यादित्याह-ज्वरेत्यादि। प्रिय इति प्रीतमानित्यर्थः। प्रीतिक्रियापेक्षया पूर्वकालभाजिखाद हिखेति क्खापत्ययः॥३२॥
गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इति। न वेगान्' इत्यारभ्य 'श्रमेण च' इत्यन्तेन वेगाः। एतान्' इत्यारभ्य 'न धारयेत्' इत्यन्तेन वेगसमुत्थाश्च रोगाः। तेषां रोगाणां भेषजञ्च। 'इमांस्तु' इत्यारभ्य 'चिनोति' इत्यन्तन येषां वेगा विधार्याश्च ते। शरीरचेष्टा' इत्यारभ्य 'विनश्यति' इत्यन्तेन यदर्थं यद्धिताहितं तत् । 'उषितात्' इत्यारभ्य ‘भवन्ति च' इत्यन्तेन उचिते चाहिते वज्ये सेव्ये चानुचिते क्रमः। 'समपित्तानिलकफा' इत्यारभ्य ‘प्रशस्यते' इत्यन्तेन यथाप्रकृति चाहाराः प्रकृतिश्च तदाहारश्च । 'द्वे अध' इत्यारभ्य ‘मलैंः' इत्यन्तेन मलायनानि। 'मलवृद्धिम्' इत्यारभ्य 'अतीव च' इत्यन्तेन गदा मलद्धिहानिरूपाः। 'तान्' इत्यारभ्य 'विचारयन्' इत्यन्तेन औषधानि तेपामित्यर्थात् । 'विषम' इत्यारभ्य 'शान्तये' इत्यन्तैः भविष्यतामनुत्पत्तो रोगाणामौषधश्च यत् तत् । ‘पापवृत्तम्' इत्यारभ्य 'नराधमा' योगात् दध्यसेव्यमुक्त, यदुक्तं "नाश्नीयाद् दधि नतमुष्णं वा न घृतमधुशर्करामुद्गामलकैविना वा इति ॥३२॥
चक्रपाणिः-अध्यायार्थसंग्रह हिताहितमिति सेव्यासव्यं व्यायामहास्यादि ; भविष्यतामनुत्पत्ती भेषजमिति माधवप्रथमे मासीत्यादिनोत्पन्नानाञ्च शान्तय इत्यन्तेन ॥ ३३ ॥
For Private and Personal Use Only