________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
चरक-संहिता। न-वेगान-धारणीयः सुमुखाः सव्वभूतानां प्रशान्ताः शंसितव्रताः। सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः ॥ ३०॥ आहाराचारचेष्टासु सुखार्थी प्रत्य चेह च। परं प्रयत्नमातिष्ठेद् बुद्धिमान् हितसेवने ॥ ३१ ॥ न नक्तं दधि भुञ्जीत न चाप्यवृतशर्करम् ।
नामुद्गसूपं नाचौद्र नोष्णं नामलकैर्विना॥ वशाः सव्ववस्तूनाम। गतव्यथा अतातशोकादयः । मुमुखाः प्रसन्नवदनाः। प्रशान्ता इन्द्रियविषयेभ्यो निवृत्तचित्ताः। शंसितव्रता ब्रह्मचारिणः । सन्मार्गवक्तारः सत्पथोपदेष्टारः। पुण्यश्रवणदर्शनाः पुण्यश्रुतिं दर्शयितु शीलवन्तः। एवंभूताः पुरुषा आप्ताः सेव्या गुरुखेन शिक्षितुमुपगम्या इत्यर्थः । एतेनैवं ख्यापितम्-एवंविधपुरुषस्य गुरुखेन प्राप्त्या तदुपदेशेन मानस. व्याधीनां ज्ञानविज्ञानधैर्यस्मृतिसमाधिशिक्षया विनाशान्मुक्तः सन निर्व्याधिभवतीति ॥३०॥
गङ्गाधरः-अस्य निगमनवाक्यं दर्शयति--आहाराचारेत्यादि। यदावं हितसेवनेन भवति तस्मात् प्रत्य च मृखा च इह च एतजन्मनि च सुखार्थी सुखयाचक आहाराचारचेष्टासु मध्ये यद्धिता आहाराचारचेष्टास्तासां सेवने परमुत्कृष्ट प्रयत्न प्रवत्तेनमातिष्ठेदाश्रयेदिति निगमनम् । अत्राहारश्चतुविधाभ्यवहारः, आचारो वृत्तानुष्ठानं, चेष्टा वाङ्मनःशरीरप्रत्तिरालापचिन्तागमनादिः । चेष्टान्तर्गतत्वेऽपि आचारस्य यज्ञायज्ञाद्यनुष्ठानस्य धम्मोधर्मजनकखेन प्राधान्यात् पृथगुपादानम् ॥३१॥ .
गङ्गाधरः-ननु तर्हि किश्चिदपि नाहायं नाप्याचयं नापि च चेष्टनीयं भवति ; न हि किश्चिद्रव्यमैकान्त्येन हितमहितं वा, अपि तु हिताहित. शठाः कराः, निघृणा निष्कृपाः। बुद्धयादिभिवृद्धाः प्रभूतप्रशस्तबुद्धया युक्ता इत्यर्थः ; गतव्यथा गतशोकादय इत्यर्थः : सुमुखाः प्रसन्नमुखाः, संशितव्रता अवलम्बितनियमाः ॥२९॥३०॥
चक्रपाणिः--आहाराचारचेष्टास्विति निर्धारणे सप्तमी ; तेनाहाराचारचेष्टानां मध्ये यद्वितं तस्य सेवने प्रयत्नमातिष्ठेदिति फलति। आचारः शास्त्रविहितानुष्टानम् ॥३१॥
चक्रपाणिः-ध्नोऽनेकप्रकारनिषिद्धत्वाद दिङ्मात्रोदाहारणार्थ दधिभोजनविधिमाह-न नक्तमित्यादि। अत्र च न नक्तमित्यत्र नोष्णमित्यत्र च नकारः क्रियया सम्बध्यते, तेन निशि
For Private and Personal Use Only