________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः] सूत्रस्थानम् ।
३७६ पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः। मम्मोपहालिनो लुब्धाः परवृद्धिद्विषः शठाः ॥ परापवादरतयश्चपला रिपुसेविनः। निघणास्त्यक्तधर्माणः पग्विा नराधमाः ॥ २ ॥ बुद्धिविद्यावय शील-धैर्यरतिसमाधिभिः ।
वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः ॥ रजस्तमोभ्यां निम्नु क्ता इत्यादिना वक्ष्यमाणास्तेषामुपदेश एवमिति वचनम् । प्रज्ञानां प्रमाणसि दानां बद्धीनां क णां प्रतिपत्तिः प्रतीतिः प्रमया बुना यत् प्रतिपद्यते सा। इति द्वयं कारणं विकाराणां पारिशेष्यात् मानसरोगाणामनुत्पत्तौ कारणवज्जैनात् नोत्पत्तिर्हि स्यात्, उत्पन्नानाञ्च शान्तिश्च स्यात् ।। २८ ॥
गङ्गाधरः--आप्तोपदेशग्रहणाथमाप्तानाप्तप्रदर्शनायानाप्तान् दर्शयति-पापत्यादि। पापानि पापजनकत्वेन पापवन्ति वृत्तमाचरितं वचो वचनञ्च सत्त्वं मनः तानि येषां ते तथा। सूचकाः खला । मोपहासिनः मर्म हृदयं मनःस्थानं तदुपहसितुम् उपहासेन पीड़यितु शीलं येषां ते। परवृद्धिं स्वेतरस्य सुखद्धिं द्विषन्ति। शठा धृर्ताः। चपलाश्चश्चलधियः। रिपुसेविनः शत्रूणां दासाः । निघृणा निद्देयाः । त्यक्तधर्माणी धम्मेहीनाः ॥२९॥
गङ्गाधरः-आप्तान् दर्शयति-बुद्धीत्यादि। ये बुद्ध प्राद्यन्यतमेन वृद्धास्ते नाप्ता मूखवयोवृद्धानामाप्तवप्रसङ्गात् । किन्तु बद्धग्रादिभिः समस्तैर्ये वृद्धास्ते आप्ताः। समाधिमतोऽपि पुरुषस्य कचिद, भ्रान्तिभवति ; कथं तादृशानां वृद्धानां सेव्यवमित्याह-दृद्धोपसे विनः आप्तोपसेवनेन सत्यशीलाः। स्वभारहिता: पुरुषाः । यद्वक्ष्यति----"रजस्तमोभ्यां निम्मुक्ताः” इत्यादि। प्रतिपत्तिरुपदिशार्थस्य सम्यगववोधः । एतद द्वयं कारणं विकाराणामनुत्पत्तौ हेतुवजनेनोत्पन्नानाञ्च शान्तये कारणं तश्चिकित्सानुष्ठानेनेत्यर्थः ॥ २॥२८॥ __ चक्रपाणि:-आप्तोपदेशग्रहणार्थम् अनाप्तान् वान् पापवृत्तेत्यादिना, सेव्यांश्चातान् बुद्धीत्यादिना दर्शयति ; वृत्तं चेरितं शरीरव्यापारः, सत्त्वं मनः ; एषां पापत्वं पापहेतुत्वात् ;
* सम्यगवरोध इति पाठान्तरम् ।
For Private and Personal Use Only