SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः सूत्रस्थानम् । ३७७ ये भूतविषवाय्वग्नि-संप्रहारादिसम्भवाः। नणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति ॥ ईर्ष्याशोकभयक्रोध-मानद्वषादयश्च ये। मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः ॥ त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः। दोषजाः। जरा चान्तं नाशम्। निजानामित्यन्तेन च्छेदः । निजानां शारीरदोषजानां परिणामासात्मेन्द्रियार्थसंयोगजानाम्, इतरेषामिति प्रशापराधनानान्तु पृथगुक्तादन्यो विधिरुपदिश्यते॥२६॥ __ गङ्गाधरः--तत्रादौ आगन्तूनां हेतुमुपदिशति-ये इत्यादि। भूता देवग्रहादयः, विषं स्थावरजङ्गम, वायुलौ किको झन्झादुष्टवातः, आदिना अभिचारादि। तेषु भूतविषादिजेष्वागन्तुषु प्रज्ञा बुद्धिरपराध्यति। मिथ्याखेनान्यथाखेन या बुद्धिबोधयति पुरुषं, तस्या बुद्धः सोऽपराधः । न केवलमागन्तुष्वेषु रोगेषु प्रज्ञाऽपराध्यति, ईर्ष्यादिष्वपि मानसरोगेवित्याह-ईयेत्यादि। ईर्ष्यादयो मानसकाऱ्यां न तु वातादिजाः। आदिना लोभमोहादयः। कर्मजास्तु व्याधयः प्रज्ञापराधेन जनिता दुष्कम्मेभ्यो जायमाना धर्मस्य कालपरिणामेनापचारात् कुपिता वातादिभ्य आगन्तुकहेतुभ्यो रजस्तमोभ्यश्च जायन्ते। इति शारीरागन्तुषु मानसेषु च यथायोग्यमन्तर्भवन्ति शारीरागन्तुज्वरादिभ्य ईर्ष्यादिभ्यश्चापृथक्त्वात् । तेषु किं करणीयमित्याह-त्याग इत्यादि । आगन्तुमानसानां प्रज्ञापराधजत्वेन प्रशापराधत्यागादीनां तेषां हेतुः प्रज्ञापराधविपरीतखेनागन्तुषु मानसेषु रोगेषु विधिनिदर्शितः। प्रज्ञापराधानां प्रशया यद्वस्तु यथा सदसद्वा तथाखेन न जानाति तदज्ञानं, यद्वस्तु यथा सदसद्वा तत्तथा न ज्ञाखा सदसत् स यया निजानामिति च्छेदः। इतरेपामित्यागन्तूनाम्। आगन्तवश्चेह भूतविषवातादिजन्यास्तथा मानसा अभिप्रताः, येनैतद् द्वितयमप्यभिधायाऽऽगन्तूनामनुत्पत्तावित्या पसंहारमागन्तुकत्वेनैव करिष्यति ॥ २६॥ चक्रपाणि:-ये भूतेति । --भूताः पिशाचादयः, आदिग्रहणाद्वपधबन्धनादीनां ग्रहणं, प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदर्शाने ; एतन्मलाश्चैते भूताभिषङ्गादयः ईर्ष्यादयश्च । यद्यपि निजा अपि प्रज्ञापराधमूला एव, यदुक्त-"प्रज्ञापराधाद्ध पहितानर्थान् पञ्च निषेवते” इति, तथापि प्राधान्यात् प्रज्ञापराधजनितवाह्मवातादिरुनभोजनादिजन्यत्वेन तथाऽन्तरावातादिजन्यत्वेन प्रपञ्च'नोच्यन्ते । आगन्तुमूलकारणपरिहारे हेतुमाह--त्याग इत्यादि । इन्द्रियोपशम इन्द्रियाणां For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy