SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ चरक-संहिता। [न-वेगान-धारणीयः यथाक्रमं यथायोगमत ऊर्द्ध प्रयोजयेत् । रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् ॥ रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु । धातवश्चाभिवर्द्धन्ते जरा चान्तमुपैति च ॥ विधिरेष विकाराणामनुत्पत्तौ निदर्शितः। निजानामितरेषान्तु पृथगेवोपदिश्यते ॥ २६ ॥ कुर्थ्यादिति नाथः, किन्तु योग्यतया.वमनस्य ककहरेषु श्रेष्ठतमवाच्चैत्रे वमनम् । अनुवासनस्य वातहरेषु,श्रेष्टतमखेन श्रावणेऽनुवासनं तत्सापेक्ष्यखादास्थापनञ्च, विरेचनस्य पित्तहरेषु श्रेष्ठतमलेन मार्गशीर्षे विरेक इत्यर्थः। वस्तुतोऽत्रोद्ध चापश्चेति चकारद्वयेन वमनानन्तरं विरेकश्चैत्रे । मार्गशीर्ष तु प्राक् च विरेकात् वमनमिति परस्परापेक्ष्यवं शापितम् । तत इति पदे वमनविरेकानन्तरं चैत्रे मार्गशीर्षे च वस्तिकर्म कुर्यादिति ख्यापितं, नस्तःकर्म चेति चकारेण वस्त्यनन्तरं शीर्ष विरेचन कुर्य्याच्चैत्रे मार्गे च। श्रावणे तु यदि चैत्रे चमनादिकं कृतमिति बुध्यत तदानुवासनास्थापने कुय्यात् । न यदि कृतवमनविरेचनमिति जानीते तदा वमनविरेचने अपि कृखा वस्तिकम् कुर्यात् । ततोऽनन्तरं नस्तःकर्म च कुादिति । स्नेहनानन्तरं स्वेदः, स्वेदात् परं स्निग्धखिन्नशरीराणां वमनं, परं स्निग्धविनशरीराणां विरेकः, विरेकात् परं वस्तिद्वय, वस्तिद्वयात् परं स्निग्धस्विनशरीराणां नस्तःकमोति यथाक्रमं यथायोगं यस्य यद्वमनादीनां योगो युक्तः स्यात् तस्य तद्योगमनतिक्रम्य कुर्यात् । न तु चैत्रे वमनं, मार्गशीर्षे विरेकः, श्रावणे वस्तिकम्म ति यथायोग्यार्थे यथाक्रमपदमिति । सर्वथा सर्वशरीरगदोपहरणाभावात् । अत ऊद्ध पञ्चकम्मभिः संशोधनानन्तरं सिद्धानि रसायनानि प्रयोजयेत् । रसायनानन्तरं वृष्ययोगञ्च कालविद्वद्यः प्रयोजयेत् । अस्य फलपाह--रोगा इत्यादि। तथेति वृष्यान्तक्रियायां रसायनान्तक्रियायां वा कृतायां सत्यां धातुषु प्रकृतिस्थेषु सत्सु, विकाराः शारीरयथासंख्येन ; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे वस्तिरिति भवति । यथाक्रमं यथानुपूर्व, यथायोग्यं यद् यस्य युज्यते ; एतच पूर्वेण वमनादिना, उत्तरेण वा रसायनादि प्रयोजयेदित्यनेन योज्यम् । सिद्धानीति दृशफलानि, रोगास्तथा न जायन्त इति वमनादीनाचरतः। धातवश्वाभिवईन्त इति रसायनवृप्ययोगानुपयुज्यत इति योजनीयम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy