________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः सूत्रस्थानम्।
३७५ स्निग्धविन्नशरीराणामूर्द्धश्चाधश्च नित्यशः।।
वस्तिकम ततः कुर्य्यान्नस्तःकर्म च बुद्धिमान् ॥ प्रथमः श्रावणः। सहस्यः पौषस्तस्य प्रथमोऽग्रहायणः । तस्मिंस्तस्मिन् मासे दोषसञ्चयं हारयेत् निर्हारयेत् । हेमन्त श्लेष्मसञ्चयं चैत्रे, ग्रीष्मे वायुसश्चयं श्रावणे, वर्षासु पित्तसञ्चयं मार्गशीर्ष हारयेदित्यर्थः। आषाढश्रावणयोः प्राट्वेन वायोः प्रकोपकालतया वक्ष्यमाणबार, आषाढ़े वायोः सम्पूर्णप्रकोपाभावात् । तत्र निर्हरणे पुनः श्रावणे कालस्वभावेन वायोः सञ्चये प्रकोपसम्भवात् । एवं कार्त्तिकाग्रहायणयोः पित्तप्रकोपकालतया वक्ष्यमाणवेन कार्तिके पित्तनिर्हरणे पुनरग्रहायणे प्रकोपाशङ्का स्यात् । तथा फाल्गुनचैत्रयोः कफकोपकालखात् फाल्गुने कफनिर्हरणे चैत्रे पुनः कफकोपसम्भवात् । एतेन तग्राख्यानं प्रत्याख्यातं येन यदिदं व्याख्यायते। सहस्येति सहशब्दो मार्गशीर्षवाचकोऽकारान्तः । तस्य प्रथमः कार्तिक इति। एतदनुसारेणान्येनापीदं यदुक्तं "श्रावणे कात्तिके चैत्रे मासि साधारणे क्रमात्। ग्रीष्मवर्षाहिमचितान वाय्वादीनाशु निदरेत् ॥” इति तच्चानुभवादेवासङ्गतं बोध्यम् । यत्तु “कात्तिके श्रावणे चैत्रे मासि साधारणे क्रमात् । वर्षादिसञ्चितान दोषान् त्रिमासान्तरितान् हरेत् ॥” इति केनाप्युक्तमयुक्तम् । श्रावणात् परं द्विमासान्तरितवं कात्तिकस्य, कार्त्तिकात् परं मासचतुष्टयमन्तरितवं स्याच्चैत्रस्येति त्रिमासान्तरितानित्यस्यासङ्गतेः। सहसि श्रावणे चैत्र इति पाठे तु युज्यते ।
केपामित्याह-स्निग्धेत्यादि। आदौ स्निग्धं ततः स्विन्नं शरीरं येषां तेषामूर्द्ध वमनेनाधो विरेकेण निर्हारयेत्, ततोऽनन्तरं विरेकानन्तरं वस्तिकर्म परस्परापेक्ष्यवेनास्थापनानुवासनेति द्वयम् । ततश्चानन्तरं नस्तःकर्म शिरोविरेचनं, यथाक्रमं यथायोगतो यस्य यदुराज्यते तथायोगेन यथाक्रमं हारयेत् कुर्यादित्युभयत्र । तेन चैत्रे उद्ध, श्रावणेऽधो निर्हरणम्, अग्रहायणे वस्तिकर्म विरेकैश्च निरुहैः सानुवासनः।” इति। हरिचन्द्रेण तु, सहशब्दोऽयमकारान्तो मार्गशीर्षवचनस्तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम् ; नन्मतानुसारिणा वाभटेन चोक्त "श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात् । ग्रीष्मवर्षाहिमचितान् वारवादीनाशु निर्हरेत् ॥” इति । "कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्। वर्षादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत् ॥” इत्यस्य तु श्लोकस्य केनापि पठितस्याविरुद्धान्वेषणे बुद्धिमतां न व्यापारः। अद्ध ज्योति वमनेन, अध इनि विरेकेण, वस्तिकर्मशब्देनास्थापानानुवासने, एतच्च सर्व वमनादि यथायोग्यतया, ग
For Private and Personal Use Only