________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
न-वेगान-धारणीयः
चरक-संहिता। विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे। जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत् ॥ २५ ॥ माधवप्रथमे मासि नभस्यप्रथमे पुनः । सहस्यप्रथमे चैव हारयेद दोषसञ्चयम् ॥ गङ्गाधरः-तेनेदन्तु यदातुर्य्यवृत्तमुक्तं मात्राशितीयादिना यच्च स्वस्थवृत्तमुक्तं यच्च वक्ष्यमाणं तद वृत्तिसेवने फलमाह-विषमेत्यादि। विषमस्य विषमधातोरातुरस्येति यावत्, स्वस्थस्य समाधातोश्च, वृत्तानि हितानि सन्ति येषां ते विषमस्वस्थत्तास्तेषाम्, एते शारीरधातुवैषम्यनिमित्ता रोगान जायन्ते । तथाऽपरे मानसागन्तुजाश्च न जायन्ते। तस्मादातुरः प्रागातुर्यात् सति चातुर्ये स्वस्थत्तपरो भवेत् । तन्न तत्त्वम् । तत्त्वं हि---विषमं वैषमेणाचरितं स्वस्थवृत्तं येषां तेषां विषमस्वस्थवृत्तानां पुरुषाणामेते मलद्धिक्षयजास्तथाऽपरे आगन्तुजाश्च रोगा जायन्ते। तस्मादनातुरः पुरुषः स्वस्थवृत्ते परस्तत्परभाववान् भवेदित्यर्थः ।। २५ ॥
गङ्गाधरः-स्वस्थवृत्तपरतायां किमिमे रोगा न भवेयुः ? कथं न स्युरित्याह - माधवेत्यादि। माधवो वैशाखस्तस्य प्रथमश्चैत्रः । नभस्यो भाद्रपदस्तस्य दीनां लिङ्गैः क्षयवृद्धिसम्बन्धेरादिश्य बुद्धा ये साध्यास्तानुपाचरेत। व्याधिप्रतिद्वन्द्वः व्याधिप्रत्यनीकैः, हेतुप्रतिद्वन्द्वः हेतुप्रत्यनीकैः; प्रतिद्वन्द्वशब्देन च विपरीतार्थकारिणामपि ग्रहणम् । मात्राकालग्रहणञ्च प्राधान्यात् ; तेन, दोषभेषजादीनामपि ग्रहणं बोद्धव्यम्, यदि वा कालग्रहण एव दोषादीनामवरोधो व्याख्येयः। अनातुरशब्देनातुर्यात् प्रागेवानागताबाधेन स्वस्थपरेण भवितव्यमिति शिक्षयति ॥ २४ ॥२३॥
चक्रपाणिः-माधवो वैशाखस्तस्य प्रथमश्चैत्रः, एवं नभस्यस्य भाद्रस्य प्रयमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमो मार्गशीर्षः । एते च मासाश्चैत्रश्रावणमार्गशीर्षा रोगभिषगजितीये विमाने शोधनार्थ वक्ष्यमाणप्रावृड़ादिऋतुक्रमेण वसन्तप्रावृट्शरदन्तर्गता भवन्ति । दृढ़बलसंस्कारेऽपि पठ्यते---"प्रावृट् शुक्रनभौ ज्ञेयौ शरदूजसही पुनः। तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति।" सुश्रुतेऽपि ऋतुचर्याध्याये दोषोपचयप्रकोपोपशमननिमित्तमीदृश एव ऋतुक्रमः परितः । तेन, शोधनमभिधीयमानं शोधनार्थोक्तत्तु क्रमेणैव व्याख्येयम्। वसन्तादीनामन्तमासेषु तु वमनाद्यभिधानं सम्पूर्णप्रकोपे भूते निर्हरणोपदेशार्थम्। प्रथमेषु हि मासेषु फाल्गुनाषाढ़कार्तिकेषु प्रकोपः प्रकर्षप्राप्तो न भवति, चितस्य ह्यसम्यक् प्रकुपितस्याविलीनस्य सग्यनिर्हरणं न भवतीति, अत एव कपिलबलेऽपि पठ्यते----"मधौ सहे नभसि च मासि दोषान् प्रवाहयेत। वम श्व
For Private and Personal Use Only