________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् ।
३७३ मलवृद्धिं गुरुत्वेन लाघवान्मलसंक्षयम। मलायनानां बुध्येत सङ्गोत्सर्गादतीव च ॥ तान् दोषलिङ्ग रादिश्य व्याधीन् साध्यानुपाचरेत् ।
व्याधिहेतुप्रतिद्वन्द्वात्राकालौ विचारयन ॥ २४ ॥ खानि। स्वेदमुखानि स्वेदपथा लोमकूपानि इत्येतानि मलायनानि मलस्य वानि, दुष्टैविषमैमलर्बाध्यन्ते । ननु हीनः किमधिक रित्यत आह-मात्राधिकरिति। गोवलीवईन्यायेनेति कश्चित् ।
ननु मलायनबाधनेन मलाधिक्यं बुध्यतां मलक्षयस्तु केन ज्ञायते इत्यत आह-मलद्धिमित्यादि । मला धिक्यं मलायनबाधनेन मलायनानां गुरुत्वेन च बुध्येत। मलायनानां लाघवादतिलघुवात् मलक्षयं. मलानां वातादीनां प्रकृतिमानाद्धीनतां बुध्येतेति। न केवलमेतेनान्येन च तत् किमित्याह-.. सङ्गोत्सर्गादिति। मलानामतीव सङ्गादप्रवर्तनात् मलक्षयमतीवोत्सर्गात प्रवर्तनात् वृद्धिं बुध्यतेति। अत एव मलाधिक्यक्षयाभावात् मलसाम्यं बुध्येतेति चकारेण शापितम्। मलशब्दे नेह वातादयो मूत्रादयश्च बोध्याः। __ मलानां वृद्धौ क्षये वा सति किमाचरणीयमित्याह-तानित्यादि। तान मलानां वृद्धिक्षयान्यतरदुष्टिमत्तया वातादीन दोषलिङ्गैर्दु टिमद्वातादिलिङ्गरादिश्य बुद्धग्रा विविच्य तज्जान साध्यान् व्याधीन व्याधिहेतुप्रतिद्वन्द्वर्गुणतो बीर्यतो विपाकतः प्रभावतो वा व्याधिविपरीतैहेतु विपरीतैस्तदुभयविपरीतैर्वा भेषजाहाराचाररुपाचरेत् चिकित्सेत् । व्याधिहेतुप्रतिद्वन्द्वखविज्ञानहेतुमाह-मात्राकालाविति । दोषभेषजाहाराचाराणां मात्रां दोषव्याधिप्रकोपत दिनांशगत्राशभुक्तांशकालं विचारयन वैद्य इति शेषः ॥२४॥
सप्त शिरसाति श्रीने, द्वो नासापुटौ, द्वे अधिणी, मुखञ्च ; स्वेदमुखानीति लोमकूपानीति मलस्यायनानि। दुष्टैरिति गोवलीवईन्यायेन क्षीणैः; मात्राधिकैरिति वृद्धैः; येनोत्तरत्र अयवृद्धयोरपि लक्षणं वेदयति ; मलवृद्धिं गुरुतया मलायनगुरुतयेत्यर्थः, लाघवान्मलायनानां सङ्घयं मलस्य स्वमानादपि क्षयमित्यर्थः। यद्वा दुष्टैरिति मात्राधिकैरित्यस्य विशेषणम्, एवं सति लाघवान्मलसङ्ग्यमिति प्रकृतिस्थालाघवात् मलक्षयमित्यधिकस्य मलस्य क्षयं प्रकृतिस्थत्वमित्यर्थी व्याख्येयः । सङ्गोत्सर्गादतीव चेति अतीवसङ्गादप्रवृत्तेर्मलसङ्ग्यम् अतीवोत्सर्गान्मलवृद्धिं जानीयादित्यर्थः। नानिति ।मलवृद्धिश्चयात्मकान् मलवृहिलयजनितानिति यावत् । दोषाणां वाता
For Private and Personal Use Only