SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्म अध्यायः सूत्रस्थानम् । ३७१ धावनुशयितानि देहोत्पत्तावुपादानाख्या प्रकृतिरपि न समाग्निवादिलक्षणा देहप्रकृतिः। प्रकृतिशब्दोऽत्र स्वभावार्थो न तूपादानार्थः। देहे प्रकृतिविकृतिभूतानां मातापित्रोरदुष्टदुष्टशोणितशुक्रगतभूतानामारोग्यसहजव्याधिजनकतया वातादिदुष्टयदुष्टयनुत्तेरिति । तेभ्यः प्रकृतिभूतपश्चभूतरूपेभ्यो देहे जायमाने जातानां समासमानां पित्तानिलकफानां प्रकोपान्यथाभावक्षया न भवन्ति । प्रसूतानाचाहारजवातादीनाश्च भवन्तीति निष्कर्षः। इत्थश्च समपित्तानिलकफपुरुषाणां वातपित्तकफानां समखदशायां न दोषत्वं दुष्टाभावात् । किन्तु धातुत्वं शरीरधारणपोषणाभ्यां जातबालस्याहारजवातादीनां दोषत्वं दुष्टिमत्त्वात् । धातुखश्च धारणपोषणाभ्यामिति। यदा त्वेते दुष्टिमापद्यन्ते तदा दुष्टाश्रयखात् दोपलं शरीरदूषकत्वाच्चेति बोध्यम् । किञ्च प्रसन्नात्मेन्द्रियमनस्वित्वादयं समधातुमलक्रियः, समधातुमलक्रियत्वादयं समाग्निः, समाग्नित्वादयं समवातपित्तकफा, समवातपित्तकफखादयं प्रकृतिमान, स्वस्थ इत्यर्थः । इति काय्येणानुमीयते कारणमिति। एवमयं वातलवाद्वातप्रकृतिमानित्यादि बोध्यम् । वातलादीनान्तु दोषानुशयितायाः प्रकृतिखोपदेशस्तु न दोषप्रकृतिभवेदित्यादौ कृच्छसाध्यत्वविज्ञानोपदेशार्थमौपचारिकखेनैव प्रकृतिपदस्य तत्र व्यवहारात् । समवातादिकस्य तत्र प्रकृतित्वेनाभिप्रेतखाभावात् सर्वरोगस्य कृच्छसाध्यखापत्तेः। वस्तुतः समपित्तानिलकफस्यैव पंसः प्रकृतिमत्ता न खन्येषां विमानस्थाने वक्ष्यमाणवादिति । अपि च शुक्रशोणितसंयोगकाले रससम्बन्धेनों गर्भातिवृद्धौ यदि शुक्रादिगतभूतानां व्यापत्तिवेत्तते तदा व्यापनत्वेन जायमाना वातादयः प्रबलदुष्टिमापद्य जायन्ते तदा गर्भ नन्ति हीनदुष्टिन्तु प्राप्य गर्भस्य विकृति जनयन्तीति विषमवातादीनां यथाबलं शरीरबाधकवं गर्भारम्भकाले बोध्यं न तु जातोत्तरकालं सततमत्यन्तबाधकलं , सहजखात् विषजकीटवत् । सुश्रुतेऽप्युक्तम्-"विषजातो यथा कीटो न विषेण विपद्यते । तद्वत् प्रकृतिभिदेहस्तज्जातवान्न बाध्यते ॥” इति । न बाध्यते इति नातिबाध्यते इत्यर्थः । अत्र शारीराधिकारात् मानसप्रकृतिनोक्ता। नन्वेषां दोषानुशयिता यदि देहप्रकृतिः स्यात् तदा किमेषां स्वस्थवृत्तता नास्त्येवेत्यत आहसदाऽऽतुराः” इति । उक्तञ्चाश्ववैद्यके–“सर्वान् प्राणभृतो हन्ति नूनन्तु कायगं विषम् । अस्मिशापि समुत्पन्ना दृश्यन्ते क्रिमयो यथा। तथा हि विषमो दोषः प्रकृती ति बाधते'। न च वातादयो वृद्धास्तथा शुक्रशोणितसंसर्गे दृश्त्वाद वातविकारवन्तं गर्भ कुर्वन्ति ; तथा गर्भजनकत्वमेव शुक्रशोणितयोः कस्मान्न निम्नन्ति इति वाच्यं ; वातादिप्रकोपाणामेव हीनमध्योत्तमानां For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy