________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
चरक-संहिता। (न-वेगान-धारणीयः वातलादिवन्नापार्थिवप्रकृतिद्वयमधिकमिति। उक्तं हि सुश्रुते-“प्रकृतिमिह नराणां भौतिकी केचिदाहुः, पवनदहनतोयैः कीर्तितास्ताश्च तिस्रः। स्थिरविपुलशरीरः पार्थिवश्च क्षमावान्, शुचिरथ चिरजीवी नाभसः खैमहद्भिः॥" इति। तत्कथं समत्रिदोषप्रकृतिर्वातलादयश्च भवन्तीति। तस्मादत्र ब्रुवन्ति । सुश्रुतेन हुयक्तम्- “सप्त प्रकृतयो भवन्ति दोषैः पृथक् द्विशः समस्तैश्च । शुक्रशोणितसंयोगे यो भवेदोष उत्कटः। प्रकृतिर्जायते तेन तस्यात्मलक्षणं शृणु॥” इति। पुरुषाणां जागरूकादिस्वभावरूपसप्तप्रकृतिवादिनोक्ता प्रकृतिः पुरुषाणां शीलादिखभावः शुक्रशोणितसंयोगकाले जायमानेन उत्कटदोषेणोत्पदाते न तु गर्भारम्भकभूतैरिति। तत्र वातोत्कटप्रकृतिकादिलक्षणद्वयमेलनेन वातपित्तादिद्विदोषप्रकृतिको लक्षणत्रयेण त्रिदोषप्रकृतिकश्वोक्त । स च त्रिदोषसमत्वेन स्वस्थः। उत्कटत्वे तु तत्र वातादीनां सोऽप्यस्वस्थः । तस्यापि दोषानुशयिता देहे प्रकृतयः सप्तैवापरेऽस्वस्थाश्चौपचारिकतया स्वस्था उपदिश्यन्ते। सुश्रुते वस्तुतः समदोषः समाग्निश्च त्यनेनोक्तस्तत्रैव स्वस्थः। स च समपित्तानिलकफत्वेन गर्भात् प्रभृति दृश्यते तदा स्वस्थ इत्युच्यते न खन्यथा। तेन ज्वरादौ समत्रिदोषजे यत् समपित्तानिलकफवं दृश्यते तद्वावच्छिदाते गर्भादीत्यनेन। इत्थश्च गर्भादिसमपित्तानिलकका अनातुरास्तेषामदुष्टवातायनुशयिता हि प्रकृतिरारोग्यमुच्यते। अनुशयिता खनुवर्तिता वातादीनां गर्भाधानावधि यावन्मरणं सोऽनुशयस्तद्वत्ता मानवानां देहे प्रकृतिरारोग्यम्। सा च गर्भाधानकाले जीवशुक्रशोणितसंयोगे मातुस्तात्कालिकाहारजरससम्बन्धेन चेतनाधिष्ठितं तं गर्भसंज्ञ' महदादिप्रकृतिविकृतित्रयोविंशत्या च सम्मूच्छितं शुक्रशोणितं तत्तदात्मशुक्रशोणिताहारजरसगतानां चतुविधवावादिचतुर्भूताकाशान् वायुर्विभजते, तेज एनान् पचति, क्लेदयन्त्यापः, पृथिवी संहत्याकाशो विवर्द्धयतीत्येवं मारुताध्मापनाहारजरसाभ्यां विवर्द्धमाने गर्भे यथाभूतैरेव भूतैश्चतुर्विधचतुर्भूतवाय्वादाकाशेभ्यो भूतेभ्यः पञ्चभूतात्मकत्वेन वायुप्रधानो वायुस्तेजःप्रधानतया पित्तं जलप्रधानत्वेन कफश्चेति त्रयः परस्परं समत्वेनासमत्वेन च संजायमाना यावन्मरणमनुशेरते, इति व्युत्पत्त्या वातपित्तकफानां समत्वेन जायमानानामनुवृत्तिकरणीभूतानि तादृशानि चतुर्विधभूतवाय्वादिगगनञ्चेति पञ्च भूतानि ‘विषजातो यथा कीटो विषेण न विपद्यते । तद्वत् प्रकृतिभिर्देहस्तज्जातत्वात् न बाध्यते” । नातिबाध्यत इति बोद्धव्य, वातादिप्रकृतेर्नित्यवातादिविकारगृहीतत्वात । तदुक्तमिह “वातलाथाः
For Private and Personal Use Only