________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् ।
३६६ अत्र विप्रतिपदनामहे । प्रकृतिभूतवातपित्तश्लेष्मातिरिक्ताः किं व्याध्यारम्भका वातादयः सन्ति, न च प्राणादिपश्चात्मकत्वेन सन्तीति वक्तश्च शक्यते । ते हि पञ्च पञ्च वातादयः प्रकृतयस्तेषामशःप्रभृतिषु पञ्चात्मकपश्चात्मकवातादीनां वृद्धग्रादीनां दर्शनात् । गर्भारम्भकशुक्रादिस्था वातादयो वै प्रकृतयस्तदारब्धाः प्राणादयः पञ्च व्याधिकरा इति चेन्न। तदा पित्तकफसंशदोषाभावात् । किञ्च धातुवैषम्यं विकारः साम्यं प्रकृतिरिति यद्वक्ष्यति, तत्र धातुः किं प्रकृतिभूतशुक्रादिस्थवातादिः ? किं तद्वातादिभूतजनितवातादिः ? तत्र शुक्रादिस्थवातादिभिभूतैरारब्धाः प्राणादयो धातुसंज्ञा धारणाच्छरीरस्येति चेत्तदा शुक्रादिस्था वातादयो न प्रकृतयः स्युः। प्राणादिभ्योऽतिरिक्ता न वातादयः सन्ति। ते च चे प्रकृतयस्तदा तेषां वैषम्यं विकारः साम्यमारोग्यमिति ।
अथ शुक्रादिस्था वायुतेजोजलधातव एव प्रकृतयो वातपित्तकका इति चेदुच्यते ? तहि, तेषां दृद्धापत्तिः । शुक्रशोणितसंयोगं गर्भाशयगतमवक्रान्तं खल्वात्मनि गर्भवत्या आहारजरसैः क्रमेण गर्भवृद्धः। तत्र चेदुच्यते---पितृजानि पञ्च महाभूतानि शुक्रस्थानि मातृजान्यात्तवस्थानि आत्मजानि तथा मातुराहारजरसजानि गर्भारम्भकाणि तत्र वाततेजोजलानि प्रकृतिभूतानि भवन्त्यव वातपित्तकफाख्यानि आ गर्भसम्पूर्णभावात। तत्र मातुराहारजरसस्थानि पुनवारवग्निजलानि शारीराणि वातपित्तककत्वेन क्षीणानि वा वृद्धानि वा भूत्वा व्याधिकराणि भवन्तीति। तत्र ब्रमः..आत्मजशुक्रशोणितवातादिवत् रस नवातादिरपि तात्कालिकाकृतिरेवान्यथा पोषणाभावेन गर्भतादवस्थ्यप्रसङ्गः स्यात् । तत्र रसवातानलजलपरिणामजरसादिधातुवद्वातपित्तकका अपि मातुराहारजरसगतवातानलजलान्यनुप्रविश्यात्मजशुक्रजशोणितगतान्यनिलानलजलानि परिणम्यमानानि क्रमेण भवन्ति । यावद् गर्भ सर्वाङ्गसम्पूर्णभावं तावत् प्रकृतिसंशास्ते वातपित्तकफा गर्भारम्भकखात् तेषां प्रकोपादयो न स्युः। प्रसूते गर्ने सति बालः स्वयं यदभ्यवहरति तत्परिणामजास्तु वातादयः स्वाहाररसगवाय्वनलजलविकारा न प्रकृतयो गर्भानारम्भकखादपि तु दोपसंशास्ते व्याधिकरा भवन्ति, हेवन्तरतो वृद्धाः क्षीणा वेति, अन्यथा समतेजोऽनिलजला इति न कृखा समपित्तानिलकफा इति वचनं कथं कृतमिति समपञ्चभूतप्रकृतिरेव वा भवति। भवति च हीनाधिकवातत्वादिलक्षणा भवतीत्यर्थः । न च वाच्यं-प्रकृतिभूतानां वातादीनां दूषणात्मकानां कथं न शरीरबाधकत्वं, सहजान वेन तथाविधविनाशविकाराकर्तृवात ; यदुक्त सुश्रुते -
For Private and Personal Use Only