________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
चरक-संहिता। (न-वेगान्-धारणीयः मुख्यस्वस्थता नास्ति गर्भात् प्रभृति वातादिदोपानुशयिखादेवौपचारिकी स्वस्थतास्तावेति ख्यापितम्। स्वास्थाहत्त्यनुष्ठानार्थमिति। ननु समपित्तानिलकफस्य यदा स्वकारणात वातादेवकतमस्य वृद्धिा हानि भवति तदैव वातिकादिव्याधिर्भवति। वृद्धिलक्षणो हीनलक्षणश्चेत्येवं वातलादीनामपि, तत् कथं प्रकृतेः प्रकोपक्षयान्यथाभावा न स्युरिति चेन्न । वातादिजव्याध्युत्पत्ती हि पुसां समाग्निखादिजागरूकखादिस्वभावजनको यः स्वभावो वातादीनां स च न क्षयद्धान्यथाभावानामन्यतममापदाते । तस्मात् समाग्निवादिजागरूकखादिस्वभावोऽपि पुंसां क्षयद्धान्यथाभावान्नापदाते। किन्तु वातादीनां तत्तज्ज्वरादिव्याधिजनकस्वभावो यः स एव मिथ्याहारादिभिः क्षयद्धान्यथाभावान्न आपदाते इत्येके। कश्चित् तु न हि प्रकृतिभूतवातादेः वृद्धग्रादयो भवन्ति, किन्तु कारणान्तरजनितकोपस्य वातादेस्तत्तद्विकारकर्तृवम् । प्रकृतिभूतदोषस्तु तत्रोपदर्शकः स्यात् । उक्तं हि “कालदृष्यप्रकृतिभिदोषस्तुल्यो हि सन्ततम् । निष्पत्यनीकं कुरुते तस्माझं यः सुदुःसहः ॥” इति । वातादिप्रकृतीनां पित्तादिरोगोत्पत्तौ पित्तादिलिङ्गः स्फुटितकरचरणादिकं प्रकृतिभूतवातादीनां लिङ्गं न वाध्यते किन्वनुवत्तेत एवेति। न हि क्षीणावस्थो वातादिः प्रकृतिक्रियाहीनलक्षणः शुक्रशोणितजीवसम्बन्धकाले वीजभूतस्य प्रकृतिभूनवातादेः क्षयमापादयति ; तस्मात् प्रकुतिभूतवातादेः क्षयादयो न भवन्त्यव । मुतरां वातप्रकृतिने पित्तप्रकृतिभवत्येवं शेषं वोध्यमिति वदति ।
तत्र यदा समप्रकृतेर्वातप्रकृतेर्वा आक्षेपकादिर्वातविकारी भवति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव, यदा च वातप्रकृते: पित्तविकारो भवति, तदा वातप्रकृतेरन्यथाभावः पित्तप्रकृतित्वं भवति, यदा तु समप्रकृतेरन्यतरदोपक्षयो भवति प्राकृतस्वकर्महानिलक्षणस्तदासौ प्रकृतिक्षयो भवति, यदुक्त दोषक्षयलक्षणे---“कर्मणः प्रकृतेर्हानिवृद्विपि विरोधिनाम्" इति । अत्रोच्यते---- प्रकृतिसम्मानरोगी पत्ती न प्रकृतिभूतस्य वृद्धि:, किं तहिं ? हेत्वन्तरजनितस्य वातादेस्तत्र विकारित्वं, प्रकृतिभूतस्तु दोषस्तत्रोपदशको भवति, यदुक्तं ... "कालदृष्यप्रकृतिभिर्दोपस्तुल्यो हि सन्ततम्। निष्प्रत्यनीकः कुरुते तस्माज ज्ञेयः सुदुःसहः”। वातप्रकृतेस्तु पित्तविकारोत्पत्तौ वातः प्रकृतिभूतस्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, न तस्यागन्तुना पित्तविकारण किञ्चित् क्रियते , वातादीनान्तु स्वमानात् क्षयः प्राकृतकर्महानिलक्षणां न शुक्रशाणितसंसर्गकालजस्य प्रकृतिभूतस्य दोपस्य चीजभूतस्य क्षयमावहतीति न प्रकांतभूतदापक्षयः, यदि वा, प्रकृते. प्रकोपान्यथाभावक्षया न भवन्तीति प्रकृतित्वेनेति ब्रमः, तेन समप्रकृतिवातप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिन भवति समप्रक्रतिर्वा ; विकारावस्था तु
For Private and Personal Use Only