________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
बुद्ध विशेषस्तत्रासीन्नोपदेशान्तर मुनेः । तन्त्रस्य कर्त्ता प्रथममग्निवेशो यतोऽभवत् ॥ अथ भेलादयश्चक्रुः स्वं स्व ं तन्त्र कृतानि च । श्रावयामासुरात्रं यं सर्षिसङ्घ सुमेधसः ॥
दीर्घञ्जीवितीय
प्रजापतितोऽश्विनीकुमारयोरश्विभ्यामिन्द्रस्य इन्द्राद्भरद्वाजस्य भरद्वाजादङ्गिर:प्रभृतीनामायुर्वेदग्रहणानन्तरमङ्गिरःप्रभृतिमहर्षिषु मध्ये आत्रेयः पुनर्व्वसुमैत्रीपरः प्रजानां मित्रतायां तत्परः सन् भूतानुकम्पया आयुव्वेदं षड्भ्यः शिष्येभ्यो दत्तवान् । अध्यापनेनेति शेषः ॥ १० ॥
For Private and Personal Use Only
गङ्गाधरः- के च ते शिष्याः पडित्यत आह- अग्निवेश इत्यादि । एतेऽग्निवेशादयस्तन्मुनेः पुनर्व्वसोर्व्वच आयुव्वं दाध्यापनरूपं तस्मादेव जगृहुः । क्रियाप्रधानत्वादाख्यातवाक्यस्येह सम्बन्धापादानयोरुभयोः प्राप्तौ क्रियापेक्षकत्वेन कारकस्य प्राधान्यादुभयार्थे ऽपादानत्वम् । तन्मुनेरिति । न खाया षष्ठान्ततया पुनरुपस्थितिः । तत्रानिवेशादिषु अभिवेशस्य बुद्ध विशेषस्तत्रकरणमवृत्तिबुद्धिरासीत् उपदेशान्तरं मुनेः पुनर्व्वसोरध्यापन रूपोपदेशादन्यस्तत्रकरणार्थमुपदेशो नासीत् । यथाधीतायुव्वं दं पुनर्व्वसुर्दत्तवान् तस्य व्याख्याबाहुल्येनोपदेशं कृतवान् न तु तत्रकरणार्थमुपदेशमित्यर्थः । यतो यस्मात् प्रथमं तत्रस्यायुच्च दशाखायाः कर्त्ताऽग्निवेशोऽभवत् । अथाग्निवेशस्यायुच्च दस्याशेषविशेष व्याख्यानेन शाखाकरणदर्शनानन्तरं भेलादयः पञ्च क्षारपाणान्ता मुनयः स्व ं स्व ं तन्त्र' चक्र रित्यग्निवेशानन्तय्र्येण भेलादीनामग्निवेशापेक्षयाऽल्पबुद्धित्व' ख्यापितम् । तेन च पुनर्व्वसुतोऽप्युपदेशान्तराभावेन यथास्वमतिभिः स्वस्वतत्रकरणादग्निवेशतत्रापेक्षयाऽपकर्षश्च भेलादितत्राणामाख्यात इति भावः । सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान् मुनीन्" इत्यनेनात्र यस्य इन्द्रशिष्यत्वं तदायुर्वेदसमुत्थानीय रसायनपादे आदिशब्देन बक्ष्यमाणेन्द्र शिष्यतायोगात् समर्थनीयम्; तत्र हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्रव्यम् । मैत्रीपरो मैत्रीप्रधानः, मैत्री च सर्व्वप्राणिष्वात्मनीब बुद्धिः ॥ १० ॥
चक्रपाणिः - बुद्धेर्विशेष उत्कर्षः, यत इति बुद्धेर्व्विशेषात्, स्व' स्व' तन्त्रमिति स्वस्व नामाङ्कितं भेलतन्त्र, जतूकर्णतन्त्रमित्यादिकं कृतानि चेत्यव तन्वाणीति शेषः । पुष्यमायुर्वेदतन्त्रकरणलक्षणं कर्म्म येषामग्निवेशादीनां ते पुण्यकर्माणः तेषां पुण्यकर्मणाम् । सर्व्वभूतहितैषिण इति
,