________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
*
www.kobatirth.org
सूत्रस्थानम् ।
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्म्मणाम् । यथावत् सूत्रितमिति प्रहृष्टास्ते ऽनुमेनिरे ॥ ११ सर्व्व एवास्तुवंस्तांस्तु सर्व्वभूतहितैषिणः । साधु भूतेष्वनुक्रोश इत्युच्चैरन ुवन् समम् ॥ तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः । सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ॥ अहो साध्वितिघोषश्च + लोकांस्त्रीनन्ववादयत् । नभसि स्निग्धगम्भीरो हर्षादभूतैरुदीरितः ॥
सम्वभूतेष्विति पाठान्तरम् ।
षट्स्वग्निवेशादिषु मध्येऽग्निवेशो विशिष्टबुद्धिमान् प्रथममायुधं दतचकतृ त्वात् । अग्निवेशस्य बुद्धिर्भेला दिबुद्धयपेक्षया विशिष्टा तथायुर्व्व देतत्रकरणमाथम्यात् । एवं पुनर्व्वमुञ्चोपदेशान्तराभावकृतवानशिवेशस्य तथा बुद्धिविशेषस्य स्वत उत्पन्नत्वात् तत्रकत्तत्वं बुद्धिविशेष हेतुः । एवं सत्युपदेशान्तराभावे बुद्धिविशेषो हेतुः । ननु तानि तत्राणि प्रमाणानि भवन्ति वा न वेत्यत आह कृतानि चेत्यादि । आत्रेय पुनर्व्वसु सर्पिसङ्घ' बहुभिर्महर्षिभिः सह वर्त्तमानम् । सुमेधसोऽग्निवेशादयः । ऋषयश्च श्रुत्वा किं चक्रुरित्यत आह- श्रुत्वेत्यादि । पुण्यकर्मणां पुण्यजनकानाम् | अर्थानां सूत्रणं सूचनवाक्यग्रन्थनकरणशब्दा वलि श्रुखा ते पुन सुसमीपस्था ऋषयः सपुनर्वसवः प्रहृष्टाः सन्तो यथावत् सूत्रितमिति ब्रुवन्तोऽनुमेनिरेऽनुमतवन्तः ॥ ११ ॥
गङ्गाधरः - न केवलमनुमेनिरे सर्व एव तु पुनस्ते सपुनर्वसव ऋषयस्ता ननिवेशादीन षण्मुनीन् अस्तुवन् प्रशसां कृतवन्तः । ते यस्मात् सर्व्वभूतहितैषिणः । सर्व्वभूतहितैषिणस्तानित्युभयत्र योज्य विभक्तिविपरिणामेन । ते प्रहृष्टा न केवलमस्तुवन, भूतेषु साधु यथा स्यात् तथानुक्रोश इति वाक्य सम अग्निवेशादिविशेषणं किंवा ऋषिसङ्घविशेषणम् । साधुशब्दोऽजहल्लिङ्गतया नपुंसकलिङ्ग एब, यथा वेदाः प्रमाणमिति, केचित्तु साध्वितिविशेषणस्य नपुंसकलिङ्गतानुरोधात् विशेष्यस्य अनुक्रोशमित्यपि नपुंसकलिङ्गं पठन्ति । अहो इति साध्विति प्रशंसायां, स्निग्ध इति अनुत्कटत्वेनाह्लादकत्वेन च ।
Acharya Shri Kailassagarsuri Gyanmandir
+ घोषश्च ेत्यत्र निर्घोष इति चक्रः ।
For Private and Personal Use Only
२७