________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
चरक-संहिता। (न-वेगान-धारणीयः एतानेवंविधांश्चान्यान् योऽतिमात्र निषेवते । गजः सिंह*मिवाकर्षन् सहसा स विनश्यति ॥२१॥ उचितादहिताद्धीमान् क्रमशो विरमेन्नरः। हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते ॥
धम्मो मैथुनम् इत्येते देहव्यायामाः। प्रनागरो मनोव्यायामः, मनोमेथ्या. संयोगो हि निद्रा, तत्प्रतिकूलव्यापारो जागर इति ।
व्यायामानन्तरमेषाञ्च दोषान्तरमुपदेष्टुमाह-एतानित्यादि। एवंविधान साहसान् कायवाङ्मानसव्यायामानन्यान् भारहरणदर्पशिलोतक्षेपणगानवाक्कलहशास्त्राशास्त्रचिन्तादीन् योऽतिमात्र निषेवते स गज इवातिमात्र सिंहमाकर्षन् सहसा बिनश्यति ॥२०॥२१॥
गङ्गाधरः-परिशिष्टानामहितानां वजनं हितानाञ्च सेवनविधिमुपदिशति ; तत्र उचितमहितं परिहत्तुं दुःशक्यते इति किं तन्न परिहार्य स्यादित्यतस्तत्परिहारमुपदिशति-उचितादित्यादि। उचिताद विधिनिषधौ अजानता स्वेनाभ्यस्तादहितात् क्रमशो बुद्धिमान् नरो विरमेन निवत्तेत न तु हठात् । क्रमेण हितमनभ्यस्तं सेवेताभ्यस्येत् ।
यद्यप्यतिव्यायामो निषिद्धिस्तथापीह पुनरभिधीयते अतिभाप्यादिष्वपि तद्दोपश्रमलमादिप्राप्त्यर्थम् । यदि वा पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि निषेधः ; यदाह नोचितानपि, उचितानप्यभ्यस्तानपीत्यर्थः, अपिशब्दादनभ्यस्तानां निषेधो लभ्यते; भाषणं भाष्यम्, अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्, एवंशब्देन गुरुभारहरणदपशिलाचालनादि गृह्यते। सिंहः किल स्वल्पप्रमाणः स्वबलोद्रेकात् गजं कर्षन् पाटयन् स्वदेहानुचितव्यायामात् पश्चात् वातक्षोभेण विपद्यते तेनायं दृष्टान्तः सङ्गतार्थः ; यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं व्यापाद्य पृष्ठे क्षिपति, ततस्तत् कोथाद्विपद्यते ; तेन दृष्टान्तो व्याख्येयः ॥२१॥
चक्रपाणिः-हितस्य सेवनमहितस्य परित्यागः कर्त्तव्य इति पूर्वमुक्त तच्च हितसेवनमहित. परिवर्जनञ्च क्रियमाणमक्रममक्रमाचरितव्यायामादिवत् प्रत्यवायकरं परं भवति ; अतस्तत्क्रममाह-उचितादित्यादि । उचितादभ्यस्तात् , क्रमशो वक्ष्यमाणेन क्रमेण, हितमनभ्यस्त
* गज सिंह इवाकर्षनू इति चक्रपाणितः पाठः ।
For Private and Personal Use Only