________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः सूत्रस्थानम् ।
३६१ लाघवं कर्मसामर्थ्य स्थैय्यं क्लेश-*-सहिष्णुता। दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ १६ ॥ श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः । अतिव्यायामतः कासा ज्वरदिश्च जायते ॥ २०॥ व्यायामहास्यभाष्याध्व-ग्राम्यधम्मप्रजागरान् ।
नोचितानपि सेवेत बुद्धिमानतिमात्रया ॥ च । व्यायामो हि सदा पथ्यो बलिनां निग्धभोजिनाम् । स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः॥” इति। - यथोक्तव्यायामफलमाह--लायवमित्यादि। लाघवं शरीरस्य, कर्मसु सामर्थ्य शक्तिमत्त्वम्, स्थैय्यं शरीरस्य यौवनानुवृत्त्यावस्थानं, सहिष्णुता क्लेशे समुपस्थिते तत्सहनशक्तिः, दोपक्षयो वातादीनां वृद्धिहानिक्षयः । ननु व्यायामात् श्लेष्मक्षयो वातपित्तयोस्तु द्धिः कथं दोषक्षय उपजायते ? इत्यत आह--अग्निद्धिरिति । च यस्मात् । “व्यायामं कुव्वेता नित्यं विरुद्धमपि भोजनम् । विदग्धमविदग्धं वा निर्दोषं परिपच्यते।” इति । एवं वहिबलमुपजायते। “चयप्रकोपौ दोपाणां सर्वेषामग्निसंश्रितो ।” इति ॥ १९॥
गङ्गाधरः अतिमात्रया कृतव्यायामदोषमाह-श्रम इत्यादि। श्रमः शरीरग्लानिः, क्लमो मनइन्द्रियग्लानिः, क्षयो धातुक्षयः, रक्तपित्तं व्याधिविशेषः, प्रतामकः प्रतमकश्वासः, अतिव्यायामतः कायवाङ्मानसव्यायामातियोगात्। शेपं स्पप्टम् । यस्मात् श्रमादिरतिव्यायामतो जायते तस्माद व्यायामहास्यादिकानुचितान् अपिकारादनुचितानपि, अभ्यस्ताननभ्यस्त.श्च अतिमात्रया न सेवेतेति। व्यायाम उक्तदेहव्यायामो, हास्यं न वाकचेष्टा मुखचेष्टाविशेषखादिति । भाष्यं वाक्चेष्टाविशेषः, अवाऽश्वगमनम्, ग्राम्यमिन्द्रियबोधनम्"। यथोक्तव्यायामगुणानाह-लाघवमित्यादि। दोपक्षयोऽत्र श्लेष्मक्षयोऽभिप्रतः, यदि वाग्निकर्तृत्वेन त्रिदोषक्षयोऽपि ; उक्त हि-"शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितो"। व्यायामातिप्रवृत्तिदोषमाह-श्रम इत्यादि। क्लम इह मनइन्द्रियग्लानिः, क्षयो धातुक्षयः, प्रतमक एवं प्रतामकः श्वासविशेषः ॥ १९॥२०॥
चक्रपाणिः-इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमानत्वेन निपेढ माह-व्यायामेत्यादि । * दुःख इत्यपि पाठः।
For Private and Personal Use Only