________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् । प्रनेपापचये ताभ्यां क्रमः पादांशिको भवेत् । एकान्तरं ततश्चोर्द्धं द्वान्तरं त्रन्तरं तथा ॥ ननु कोऽसौ क्रम इत्याह-क्रमश्चात्रेत्यादि। प्रक्षेपापचये ताभ्याम् अभ्यवहाय्ये खल्वहितेऽभ्यस्ते द्रव्ये कचिद व्यञ्जनादौ हितस्य प्रक्षेपोऽहितस्य अभ्यस्तस्यापचयः कर्त्तव्यस्तस्मिन् ताभ्यामनभ्यस्ताभ्यस्ताभ्यां हिताहिताभ्याम् अनभ्यस्ताद्धितादभ्यस्तादहिताच्च पादांशिकः क्रमो भवेत् । पादश्चतुर्थोऽश एवांशस्तेन कृतः क्रमः पादांशिकः, किंवा पादस्य चतुर्थांशस्यांशश्चतुर्थी भागः षोड़शांश इति यावत् । तेन कृतः क्रप इत्यर्थः। प्रथमपादाभ्यासे एकान्तरम् एकाहमन्तरीकृत्य भवेत् । ततश्चोद्ध प्रथमं हितस्योपादानतया प्रक्षेपोहितस्य त्यागोऽपचयस्तयोरभ्यासादूद्ध द्वितीये हितपादद्वयप्रक्षेपाहितपादद्वयप्रक्षेपाहितपादद्वयापचये द्वान्तरं द्वाहमन्तरीकृत्य भवेत्। ततश्चोर्द्ध हितद्विपादप्रक्षपाहितद्विपादापचयाभ्यासादूद्ध तृतीये हितपादत्रयप्रक्षेपाहितपादहितम्। कोऽसौ क्रम इत्याह -- क्रमश्च त्यादि । प्रक्षेपो हितस्यापचयोऽहितस्य, ताभ्यां हिताहिताभ्याम् , पादश्चतुर्थों भागः, तद्रूपोऽशः पादांशस्तेन कृतः क्रमः पादांशिकः। अन्ये तु पादस्यांशः पादांश इति षोड़शं भागं वर्णयन्ति, स च हिताहितयोयुगपत् प्रक्षेपापचये पादांशिकः क्रमः, प्रथममेकान्तरमेकाहमन्तरा कृत्वेत्यथ :, ततः प्रथमहितपादप्रक्षेपाहितपादापचयाभ्यासादृद्ध द्वितीयपादप्रक्षेपापचये द्वन्तरं द्वबहमन्तरीकृत्य क्रमो भवेत् ; तथा द्वितीयपादाभ्यासादूद्ध तृतीयपादप्रक्षेपापचये त्राहमन्तरीकृत्य क्रमो भवेत् ; चतुर्थपादप्रक्षेपापचये चतुरहमन्तरीकृत्य बोद्धव्यमत ऊद्ध प्रक्षेपापचयाभावात् चतुष्पादसम्पूर्णस्य पथ्यस्यानवधिसेव्यत्वादयं पिण्डार्थः। अपथ्या यवकादयोऽभ्यस्तास्ते त्याज्याः रक्तशाल्यादयः पथ्या अनभ्यस्तास्ते सेव्याः, तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनामेकपादयोगवद् भोजनं, द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वावपथ्यस्य ; एवं तृतीये; एवं द्वितीयपादाभ्यासो द्वन्तरो भवति ; चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, एवं पञ्चमे षष्ठ च; एवं तृतीयपादाभ्यासस्त्रयन्तरो भवति ; सप्तदिनप्रभृति चतुष्पादपथ्याभ्यास: ; यदि वाऽन्तरशब्दो व्यवधिवचनः, तथाशब्दात् चतुरन्तरमिति च लभ्यते; तेनायमर्थः-प्रथमे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वावपथ्यस्य, एवं चतुर्थे, पञ्चमे तु दिने पथ्यस्य भाग एकस्त्रयोऽपथ्यस्य, एवं द्वयन्तरीकृतौ भवतः, षष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽरमे च ; ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं श्रीष्यहान्यन्तरीकृतानि भवन्ति । ततो दशमे सर्वं पथ्यम् ; एवमेकादशे द्वादशे त्रयोदशे च ; चतुईशे तु पथ्यभागत्रयम् एकोऽपथ्यभागः ; एवं चतुरन्तरता तथाशब्दसूचिता भवति , पञ्चदशाहात प्रभृति सम्पूर्णपथ्य
For Private and Personal Use Only