________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
चरक-संहिता। [न-वेगान-धारणीयः इमांस्तु धारयेद वेगान् हितैषी प्रत्य चेह च । साहसानामशस्तानां मनोवाकायकर्मणाम् ॥ लोभशोकभयक्रोध-द्वषमानजुगुप्सित--
नैर्लज्ज्येातिरागाणामभिध्यायाश्च बुद्धिमान् ॥ सप्तोद्गारादिजा इहोक्ताः किं नोदवर्ता भवन्तीति ? उच्यते-उद्गारादिसप्तजाचरकाचाव्येण नोदावत्तेवेनाभिप्रेताः। किन्तु घृतादिव्यापत्तिवद्वे गधारणव्यापद एवेति बोध्यम् । तथाऽपथ्यभोजनजस्त्वनुक्त एव दोपलिङ्गरुन्नेय इति परमतमप्रतिषिद्ध ह्यनुमतं भवति न हि सर्वः सर्व वक्तीति ॥ निगमनमाह इच्छनित्यादि ।। १६॥
गङ्गाधरः-ननु मूत्रादीनामिव साहसलोभादीनामप्यविधायखेनोक्तखेन संशयः किं धार्या न वा साहसलोभादिवेगाः ? इत्यत आह-इमांस्त्विादि । को धारयेत? हितेत्यादि। प्रत्य मृत्वा परलोके इह च जन्मनि हितैषी। कान वेगानित्यत आह--साहसानामिति । साहसानि कम्मयुत्साहाः । तानि सत्त्वसात्म्यशक्तिमविविच्य यानि क्रियन्ते तान्यशस्तानि तेषां वेगान् प्रत्त्युन्मुखभावान धारयेत् । सत्त्वसात्याशक्तिमालोच्य कर्मप्युत्साहं कुर्यादित्यर्थः । केषामित्यत आह-मनोवाकायकम्र्मणामिति । अशस्तानि मनसः कर्माणि दर्शयति -लोभेत्यादि। लोभोऽनुचितविषये मनःप्रवृत्ति, शोको धनबान्धवाद्यभावजन्यदुःखे मनःप्रवृत्तिः, भयमपकारकार्थानुसन्धाने मनःप्रवृत्तिः, क्रोधो येनात्मानं प्रदीप्तमिव मन्यते तत्, द्वषो वैरं परापकारे मनःप्रवृत्तिः मनःप्रत्यनुकूलभावप्रयुक्तमनोनिवृत्तिा, मानः सदसद्गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः, जुगुप्सितं परनिन्दा, लज्जा मनःसङ्कोचस्तदभावो नैर्लज्ज्यम् । ईर्ष्या
चक्रपाणिः-वेगानामविधार्यत्वेनोक्तत्वाल्लोभादीनामपि वेगा अविधार्याः स्युरित्याहइमास्त्वित्यादि। प्रत्य जन्मान्तरे, इहेतीह जन्मनि । सहसा आत्मशक्तिमनालोच्य क्रियत इति साहसं, तत् तु गजाभिमुखधावनादि । अशस्तानां निष्फलानामिति यावत्। मनोवाकायकम्मणामित्यत्र कर्मशब्दो व्यापारवचनः । अशस्तं मनसः कर्म दशयति-लोभेत्यादि। लोभो विषयेऽनुचितप्रार्थना, शोकः पुवादिविनाशजं दैन्यं, भयमपकारकानुसन्धानजं दैन्यम्, क्रोधः प्रवपो येन प्रज्वलितमिवात्मानं मन्यते, मानः सदसद्गुणाद्यारोपेणात्मन्युत्कर्षप्रत्ययः, जुगुप्सितं गोपनेच्छा, लज्जा, तदभावो नैर्लज्ज्यं ; समाने द्रव्ये परसम्बन्धप्रतिषेधेच्छा ईर्ष्या, अतिराग उचित एव विषये पुनःपुनः प्रवर्त्तनेच्छा। अभिध्यानमतिमात्रेहारम्भणं, यदि वा परद्रव्यविषये स्पृहा।
For Private and Personal Use Only