________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
चरक-संहिता। {न-नेगान्-धारणीय कण्ठास्यशोषो बाधियं श्रमः सादो * हृदि व्यथा। पिपासानिग्रहात् तत्र शीतं तर्पणमिष्यते ॥ १२ ॥ प्रतिश्यायोऽनिरोगश्च हृद्रोगश्चारुचिभ्रमः। वाप्पनिग्रहणात् तत्र स्वप्नो मद्य प्रियाः कथाः ॥ १३ ॥ जम्भाऽङ्गमईस्तन्द्रा च शिरोरोगाक्षिगौरवम्। निद्राविधारणात् तत्र स्वनः संवाहनानि च ॥ १४ ॥ गुल्महृद्रोगसम्मोहाः श्रमनिश्वासधारणात् । जायन्ते तत्र विश्रामो वातनाश्च किया हिताः ॥ १५ ॥ गङ्गाधरः-क्रमप्राप्त ' तृष्णाविघातजरोगमाह-कष्ठास्यशोष इत्यादि। सादोऽङ्गावसादः। सुश्रुते तु-“कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद. हृदये व्यथा च ॥” इति।
तस्य चिकित्सितमाह--तत्र शीतमित्यादि। तपणं तर्पयतीति । सुश्रतेऽपि-"तृष्णाघाते पिबेन्मन्थं यवागू वापि शीतलाम् ॥” इति । १२ ॥
गङ्गाधरः-क्रमप्राप्तं वाष्पनिग्रहजरोगमाह--प्रतिश्याय इत्यादि। सुश्रुते तु-"आनन्दजं वाप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि। शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ॥” इति ।
अस्य चिकित्सितमाह--तत्र स्खन इत्यादि। सुश्रु तेऽप्येवम् ॥ १३ ॥
गङ्गाधर -क्रमप्राप्त निद्रावेगनिग्रहजरोगमाह--जम्भेत्यादि। सुश्रुते तु “जम्भागमोऽङ्गशिरोऽक्षिजाड्य निद्राविघातादथ वापि तन्द्रा॥” इति ।
अस्य चिकित्सितमाह--तत्र स्वम इत्यादि । संवाहनं पादादिप्रदेशे सुखयितु मुहुः पाणिना वाहनं मईनमभिहननश्च। सुश्रुते तु--"निद्राघाते पिवेत् क्षीरं सुप्याच्चेष्टकथारतः॥” इति ॥१४॥
गङ्गाधरः-क्रमप्राप्त श्रमजनितश्वासविधारणजरोगमाह-गुल्मेत्यादि । स्पष्टम् । सुश्रते तु-"श्रान्तस्य निश्वासविनिग्रहेण हृद्रोगमोहावथ वापि गुल्मः ॥” इति। सङ्कोचः, सुप्तिः स्पर्शाज्ञानं, भ्रमणं भ्रमो येन चक्रस्थितमिवात्मानं मन्यते। सादोऽङ्गावसादः, तपयतीति तर्पणं, सवाहनं पाणिना पादादिप्रदेशे सुखमभिहननमुन्मईनञ्च ॥ ५---१६ ।।
* श्वास इति क्वचित् पठ्यते।
For Private and Personal Use Only