________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सूत्रस्थानम् ।
३५५ हिका कासोऽरुचिः कम्पो विबन्धो हृदयोरसोः । उद्गारनिग्रहात् तत्र हिकायारतुल्यमौषधम् ॥६॥ विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम् । जम्भाया निग्रहात् तत्र सव्वं वातघ्नमौषधम् ॥ १०॥ कार्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिभ्रमः।
क्षुद्व गनिग्रहात् तत्र स्निग्धोष्णं लघु भोजनम् ॥ ११॥ गङ्गाधरः-क्रमप्राप्तमुद्गारविघातजरोगमाह-हिक्केत्यादि। सुश्रुते तु"कण्ठास्यपूर्णखमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः। उद्गारवेगेऽभिहत भवन्ति जन्तोविकाराः पवनप्रसूताः॥” इति । ___ अस्य चिकित्सितमाह-तत्र हिकाया इत्यादि। सुश्रुते तु-“उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् । सुरां सौवर्चलवती वीजपूररसान्विताम् ॥" इति ॥९॥
गङ्गाधरः-क्रमप्राप्त जम्भावेगविधारणजरोगमाह--विनामेत्यादि । आक्षेपो मुहम्मुहुरङ्गानां क्षेपः। सङ्कोचः पव्वेणामाकुश्चनम् । सुप्तिः स्पर्शानभिज्ञानम् । सुश्रुते तु-“मन्यागलस्तम्भशिरोविकारा जम्भोपघातात् पवनात्मकाः स्युः । तथाक्षिनासावदनामयाश्च भवन्ति तीवाः सह कणरोगैः ॥” इति । __ अस्य चिकित्सितमाह-सर्व वातघ्नमौषधम् । सुश्रुते तु–“स्नेहस्वेदैरुदावर्त जम्माजं समुपाचरेत्” इति ॥१०॥
गङ्गाधरः--क्रमप्राप्तं क्षुद्रगविघातजरोगमाह---काश्येत्यादि। भ्रमश्चक्रस्थवभ्रमणमिति । सुश्रुते तु-“तन्द्राङ्गमविरुचिभ्रमश्च क्षुधो विघातात् कृशता च दृष्टः॥” इति।
अस्य चिकिसितमाह-तत्र स्निग्धोष्णेत्यादि। सुश्रुतेऽपि-"क्षुद्विघाते हितं स्निग्धमुष्णश्च लघु भोजनम् ॥” इति ॥११॥ त्रयोदशानां विधारणात् त्रयोदशोदावर्ती अभिधीयन्ते तथापीहाष्टोदरीये मूत्रपुरीषवातशुक्रवमिक्षवथुविधातजा एव परं पडुदावर्ती अभिधातव्याः, उद्गारादिनिरोधजानां वातनिरोधज एवोदावर्ते अन्तर्भावाभिप्रायात् ; यदि वा, मूत्रादिविघातज एव विकारे चरकाचार्यस्य उदावर्त्तसंज्ञाभिप्रेता नान्यत्रेति न विरोधः। मुहम्म हुरङ्गानामाक्षेपणमाक्षेपः, पणामाकुचन * "कासः” इत्यत्र "श्वासः” इति चक्रपाणिः ।
For Private and Personal Use Only