________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
चरक-संहिता। न-वेगान्-धारणीयः कण्डूकोठारुचिव्यङ्ग-शोथपाण्डामयज्वराः। कुष्ठहृल्लासवीसश्चिर्दिनिग्रहजा गदाः॥ भुक्ता प्रच्छर्दन धूमो लङ्घन रक्तमोक्षणम् । रुक्षान्नपान व्यायामो विरेकश्चात्र शस्यते ॥७॥ मन्यास्तम्भः शिरःशूलमर्दिता वभेदको । इन्द्रियाणाञ्च दौर्बल्यं क्षवथोः स्याद् विधारणात् ॥ तत्रोद्ध जत्र केऽभ्यङ्गः स्वेदो धूमः सनावनः ।
हितं वातनमाद्यञ्च घृतश्चौत्तरभक्तिकम् ॥८॥ "आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते।” इत्युक्तेर्वस्तयोऽत्रास्थापनानि क्षारवैतरणादीनि त्रिविधं वा आस्थापनानुवासनोत्तरवस्तिमेदात् ॥६॥
गङ्गाधरः-क्रमप्राप्तं वमिवेगविधारणजरोगमाह-कण्डूकोठेत्यादि। कोठो वरटीदष्टसंस्थानाकारः। व्यङ्गो मुखे श्यामवर्णमण्डलः। हल्लास उत्क्लेशः । सुश्रुते तु-"छविघातेन भवेच कुठं येनैव दोपेण विदग्धमन्नम् ।" इति।
अस्य चिकित्सितमाह -भुक्त त्यादि। व्यायामोऽत्र प्रवाहणादिरूपः। "छाघातं यथादोषं नस्यस्नेहादिभिजयेत् ॥ इति ।। ७ ॥
गङ्गाधरः-क्रमप्राप्तं क्षवथुवेगविधारणजरोगमाह-मन्यास्तम्भ इत्यादि। स्पष्टम् । सुश्रुते तु-“भवन्ति गाई क्षवथोर्विघाताच्छिरोऽक्षिनासाश्रवणेषु रोगाः॥” इति। ___ अस्य चिकित्सितमाह-तत्रेत्यादि। वातघ्ननाद्य वातहरं भोज्यम् । चकारात् स्वेदादयश्च वातहराः। सुश्रुते तु –“तीक्ष्णाञ्जननावनाभ्यां तीक्ष्ण. गन्धोपसिङ्घनैः। वर्तिप्रयोगैरथवा क्षवजे तं प्रवर्तयेत् । तीक्षणौषधप्रधमनैरथवादित्यरश्मिभिः ॥” इति ॥ ८ ॥
नानि', 'पानानि' 'वस्तय' इति त्रयं वातानुलोमन शस्तमिति योज्यं ; कोठो वरटीदाकारः शोथः, व्यङ्गश्च श्यामवर्णो मण्डलः, हृल्लास उत्क्लेशः। अविभेदोऽर्द्धमस्तकवेदना। आद्य खायं भोजनमित्यर्थः, चकारात् स्वेदादयोऽपि वातना इति सूचयति। यद्यपि सुश्रुते मूत्रादीनां
For Private and Personal Use Only