________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
चरक-संहिता : न-वेगान-धारणीयः पक्काशयशिरःशूलं वातवच्चोंनिरोधनम्। पिण्डिकोदवेष्टनाध्मान पुरी स्याद विधारिते ॥ स्वेदाभ्यगावगाहाश्च वर्तयो वस्तिकर्म च ।
हितं प्रतिहते वर्चस्थन्नपान प्रमाथि च ॥ ४ ॥ पिबेत् ॥ एलामप्यथ मदान क्षीरं वापि पिचन्नरः। धात्रीफलानां स्वरसं सजलं वा पिबेत् त्राहम् ॥ रसमश्वपुरीपस्य गर्दभस्याथवा पिवेत् । मांसोपदंशं मधु वा पिबेद्वा सीध गौड़िकम् ॥ भद्रदारू धनं मूनां हरिद्रां मधुकं तथा। कोलप्रमाणानि पिवेदान्तरीक्षेण वारिणा॥ दुःस्पर्शस्वरसं वापि कपायं कुङ्क मस्य च । एरुिवीज तोयेन पिबेद्वाऽलवणीकृतम् ॥ पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा। योगांश्च वितरेत् तत्र पूवोक्तानश्मरीभिदः॥ मूत्रकृच्छ क्रमं वापि कुर्यान्निरविशेषतः। भूयो वक्ष्यामि योगांश्च भूत्राघातोपशान्तये ॥” इति ॥२॥३॥ ____ गङ्गाधरः-क्रमिकपुरीपवेगविधारणजरोगं सचिकित्सितमाह-पक्काशय इत्यादि। पिण्डिकोद्वेष्टनं जानुजङ्घामध्यस्थमांसवर्तयः पिण्डिकाः। तदुद्वेष्टन दण्डादिनेव ताड़नम्। सुश्रते तु.--"आटोपशूलौ परिकतेनञ्च सङ्गः पुरीपस्य तथोद्धवातः। पुरीषमास्यादथवा निरति पुरीपवेगेऽभिहते नरम्य ॥” इति ।
चिकित्सितमस्याह - स्वदेत्यादि। बत्तेयोऽत्र भिन्नाधिकारखान्नोक्तास्तत्रान्तरेणानाहोक्ताश्चानुसत्तव्याः । वस्तिकम त्रिविधम् । अन्नपानं प्रमाथि च वातानुलोमनं भेषजञ्च प्रमाथि तेन वैरेचनिकद्रव्यैः सर्पिस्तैलसाधनं चूर्णकाथकल्कादिकल्पनया कल्पितं भेषजं बोध्यम्। सुश्रुते चोक्तम्"पुरीषजे तु कत्र्तव्यो विधिरानाहिको भवेत् ॥” इति। एवं तत्रान्तरोक्तानि च-"त्रित्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः। गुड़िका गुड़तुल्यास्ता विड्विवन्धगदापहाः॥ हरीतकीयवक्षार-पीलूनि तिता तथा। घृतैश्चर्णमिदं पेयमुदावत्तेरुजापहम् ॥ हिङ्गुकुष्ठवचास्वज्जि विड़ञ्चेति द्विरुत्तरम् । पीतं मदेवन तच्चूर्णमुदावत्तेहरं परम् ॥ खण्डपलं त्रितासमनुपकुल्याकषणितं श्लक्ष्णम् । प्राग्भोजने च मधुना विड़ालपदकं लिहेत् प्राज्ञः ।। एलदगाढपुरीपे प्रयोगः, मात्राधिकत्वेन हि भेषजं दोषान् पीड़यतीति कृत्वा, अन्यत्राप्युक्तम् “अवपीडकसपिभिः कोष्ण ततैलकैस्तथाभ्यङ्गैः” इति। त्रिविधमिति निरूहानुवासनोत्तरवस्त्यात्मकम् । पिण्डिका जानुजङ्घामध्यमांसपिण्डिका, वर्त्तयो वक्ष्यन्ते ॥ ३४ ॥
For Private and Personal Use Only