________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः । अथातो न-वेगानधारणीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवाना यः ॥ १॥ न बेगान धारयेद्धीमान् जालान मूत्रपुरीषयोः। न रेतसो न वातस्य न वायाः चवथोन च ॥ गोदारस्य न जम्भाया न बेगान क्षुत्पिपासयोः। न बाष्पस्य न निद्राया निश्वासस्य श्रमेण च ॥
गङ्गाधरः-ननु मात्राशिताशनस्य साम्यवेन स्वस्थहितखवत तत्परिणामे मलमूत्रविसर्गस्यापि हितसमिति मलमूत्रवेगधारणप्रतिषधे वक्तव्ये वेगविधारणप्रतिषेधप्रसङ्गात् स्वस्थ हितवेगविधारणप्रतिषेधमुपदेष्टुं न-वेगान-धारणीयमारभते -अथात इत्यादि। अध्यायारम्भे तु न वेगान् धारयेदिति वाक्यस्यार्थ न-वेगान्-धारणमिति पदमधिकृत्य कृतसंज्ञोऽध्यायोऽयमिति सव्वं प्राग्वद, व्याख्येयम् ॥१॥
गङ्गाधरः-न वेगान् धारयेदित्यादि। वेगोऽत्र प्रवृत्त्युन्मुखता। जातानित्युत्पन्नमात्रान । अनादीमत्रपदनिर्देशः पुरीपादापेक्षया मुहरुपस्थितखात् । मूत्रपुरीषयोः क्षुत्पिपासयोरिति समासकरणात् प्रायेणानयोः समानप्रत्युन्मुखवं बोध्यम् । न वातस्येत्यपानवातस्य गुदेन प्रत्युन्मुखस्य प्रति. अवस्यात्यावश्यकखेन प्राधान्योपदर्शनार्थम् । न वाष्पस्येति वाष्पो हपशोकोत्पन्नोमसहिताश्रु। निश्वासस्य श्रमेण चेति श्रमजनितश्वासवेगविधारणप्रतिषेधो न खन्यस्य। प्राणायामादिना हि योगनायुर्वद्धते ।
चक्रपाणिः--पूर्वाध्यायाभ्यां स्वस्थहित आहारः प्राधान्येनोक्तः, तस्याहारस्य स्वस्थहितत्वम् आहारपाकजमूत्रपुरीषाणामविधारितवेगानां वहिर्गमने सति भवतीति मूत्रादिवेगाविधारणोपदेशक नवेगान्धारणीयमाह। इहापि नवेगधारणशब्दस्याभावात् माताशितीयवत् पर्यायशब्देन संज्ञा बोद्धव्या। जातानिति जातमात्रान्, वेगः प्रवृत्त्युन्मुखत्वं मूतपुरीपादीनाम्। मूत्रग्रहणमादौ मूत्रस्य पुरीषाद्यपेक्षया बहुवेगत्वात्। मूलपुरीषयोरिति क्षुत्पिपासयोरिति च समासकरणं
For Private and Personal Use Only